लृड्. लकारस्‍य प्रयोग: - 2


यत्र क्रियातिपत्ति: (क्रियाया: अनिष्पत्ति: असिद्धि: वा) अर्थे प्रतीति: भवति अथवा हेतो: वाक्‍यार्थस्‍य वा मिथ: (हेतु:/वाक्‍यार्थ: व मिथ्‍या नास्ति इति) इति न प्रतीयते, तत्रापि लृड्. लकारस्‍य प्रयोग: भवति ।  लृड्. भूत् उत भविष्‍यत् अर्थे प्रयुज्‍ज्‍यते ।  चन्‍द्रव्‍याकरणानुसारी विद्वान्‍स: लृड्. लकारस्‍य भविष्‍यत्काले प्रयोग: नैव मन्‍यन्‍ते ।  ते भविष्‍यत् काले लृड्. इत्‍यस्‍यास्‍थाने लृट् लकारस्‍यैव प्रयोग: कुर्वन्ति ।  (भविष्‍यति क्रियातिपतने भविष्‍यन्‍त्‍येवेति चान्‍द्रा:) यथा -

यदि गोपाल: सन्‍तरणकौशलमज्ञास्‍यत् तर्हि जलात् नामेष्‍यत् ।
(यदि गोपाल तैरना जानता तो उसे जल से डर न लगता) ।

निशाश्‍चेत् तमस्विन्‍यो नाभविष्‍यन् को नाम चन्‍द्रमसो गुणं व्‍यज्ञास्‍यत् ।
(यदि रातें अन्‍धेरी न होतीं तो चन्‍द्रमा का गुण कौन जानता) ।

यद्यहम् अन्‍धो नाभविष्‍यम् तर्हि पृथिव्‍या: सर्वेषां गुणानां सौन्‍दर्यमद्रक्ष्‍यम् ।
(यदि मैं अन्‍धा न होता तो मैं पृथ्‍वी की समस्‍त वस्‍तुओं का सौन्‍दर्य देखता) ।

यदि राजा दुष्‍टेषु दण्‍डं नाधारयिष्‍यत् तदावश्‍यं ते प्रजा उपापीडयिष्‍यन् ।
(यदि राजा दुष्‍टों को दण्‍ड न देता तो वे लोगों को अवश्‍य पीडित करते) ।

इति

टिप्पणियाँ