भ्‍वादिगण:

    भ्‍वादिगण: -  दशक्रियागणा: सन्ति ।  तेषु भ्‍वादिगण: प्रथम: गण: अस्ति ।  अस्‍य नाम भ्‍वादिगण इति अभवत् भू धातो: गणस्‍य प्रथमधातुत्‍वात् ।  दशगणेषु धातूनाम् आहत्‍य संख्या 1970मिति अस्ति । यासु 1035 तु केवलं भ्‍वादिगणे सन्ति ।
     भ्‍वादिगणीय धातुषु धातु-प्रत्‍ययो: मध्‍ये शप् (अ) विकरणं लगति (कर्तरि शप्)।  मूलप्रत्‍ययै: (ति त: अन्ति) सह् शप् (अ) इति मिलित्‍वा 'अति, अत:, अन्ति' इति भवन्ति ।
     धातो: अन्तिमं स्‍वरं 'इ ई, उ उू, ऋ ऋृ, तथा च उपधाया: (अन्तिमवर्णस्‍य पूर्वतनम्) इकार, उकार, ऋकारस्‍य च गुणादेश: (ए, ओ, अर्) भवति ।  अन्तिमस्‍य गुणस्‍य एकारस्‍य 'अय्' इति  ओकारस्‍य च 'अव्' इति भवति ।  यथा -
भू + अ + ति = भवति,
नि + अ + ति = नयति
हृ + अ + ति = हरति आदि
   लट्, लोट्, लड्., विधिलिड्. चादे: संक्षिप्‍तरूपाणि अधोविधि चलन्ति ।

परस्‍मैपदम्  

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अति अत: अन्ति
मध्‍यमपुरुष: असि अथ: अथ
उत्‍तमपुरुष: आमि आव: आम:

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत् अताम् अन्
मध्‍यमपुरुष: अ: अतम् अत
उत्‍तमपुरुष: अम् आव आम

 लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अतु अताम् अन्‍तु
मध्‍यमपुरुष: अतम् अत
उत्‍तमपुरुष: आनि आव आम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: एत् एताम् एयु:
मध्‍यमपुरुष: ए: एतम् एत
उत्‍तमपुरुष: एयम् एव एम

 आत्‍मनेपदीयम्

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अते एते अन्‍ते
मध्‍यमपुरुष: असे एथे अध्‍वे
उत्‍तमपुरुष: आवहे आमहे

 लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत एताम् अन्‍त
मध्‍यमपुरुष: अथा: एथाम् अध्‍वम्
उत्‍तमपुरुष: आवहि आमहि

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अताम् एताम् अन्‍ताम्
मध्‍यमपुरुष: अस्‍व एथाम् अध्‍वम्
उत्‍तमपुरुष: आवहै आमहै

 विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: एत एताम् एरन्
मध्‍यमपुरुष: एथा: एयाथाम् एध्‍वम्
उत्‍तमपुरुष: एय एवहि एमहि

       एवं विधा सर्वाणि भ्‍वादिगणीयधातुरूपाणि चलन्ति ।  अग्रे वयं मुख्‍यधातूनां रूपाणि सर्वेषु लकारेषु पश्‍याम: ।

इति 

टिप्पणियाँ

एक टिप्पणी भेजें