मात्रा: ।।

स्‍वरोच्‍चारणे य: समय: स्‍वीकृयते स: मात्रा इति उच्‍यते । तदनुसारं स्‍वरा: त्रेधा ।
1 - एकमात्रिक: - हृस्‍व:
2 - द्विमात्रिक: - दीर्घ:
3 - त्रिमात्रिक: - प्‍लुत:

हृस्‍व: - येषाम् स्‍वराणाम् उच्‍चारणे एकमात्रिक: समय: स्‍वीकृयते ते हृस्‍वा: । यथा - अ, इ, उ आदि
दीर्घ: - येषाम् उच्‍चारणे तु द्विमात्रिक: समय: विधीयते ते दीर्घा: । यथा - आ, ई, ऊ आदि
प्‍लुत: - येषाम् उच्‍चारणे तु त्रिमात्रिक: समय: गृह्यते ते प्‍लुता: । यथा - ऊ३ ‍ आदि
व्‍यंजनम् - व्‍यंजनानाम् तु अर्धमात्रिक: समय: भवति अतएव एतेषाम् उच्‍चारणाय स्‍वराणां सहाय्यं स्‍वीकृयते  । 

''एकमात्रो भवेद्ध्रस्‍वो द्विमात्रो दीर्घ उच्‍यते । 
त्रिमात्रस्‍तु प्‍लुतो ज्ञेयो, व्‍यंजनं चार्धमात्रकम् ।।''

इति

टिप्पणियाँ