प्रत्‍याहार: ।।

प्रत्‍याहार:
(प्रति+आ+हृ+घञ्)
ʺप्रत्याहृयन्ते संक्षिप्यन्ते वर्णाः यत्र सः प्रत्याहारःʺ
सूत्रम् – आदिरन्त्येन सहेता ।

निर्माणनियमाः –
  1. प्रत्याहारनिर्माणं माहेश्वरसूत्राणि स्वीकृत्य एव भवन्ति । 
  2. महोश्वरसूत्राणां इत्संज्ञकवर्णाः प्रत्येकस्य प्रत्याहारस्य अंतिमः वर्णा भवन्ति । 
  3. प्रत्याहारस्य प्रारम्भिकवर्णः इत्संज्ञकः न भवेत् । 
  4. प्रारम्भिकवर्णतः अंतिम इत्संज्ञकवर्ण पर्यन्तं सर्वे वर्णाः तस्मिन् प्रत्याहारे परिगण्यते । 
  5. इत्संज्ञकस्य वर्णस्य गणना न भवेत्‚ तस्य लोपत्वात् । 
  6. इत्संज्ञकवर्णः सदैव प्रत्याहारे सर्वथा सर्वतोन्तः वर्णः एव भवेत् । 
यथा – अण् प्रत्याहारनिर्माणे ण् कारः माहेश्वरसूत्रस्य प्रथमसूत्रस्य अइउण् इत्यस्य अंतिमः इत्संज्ञकवर्णः अस्ति । अकारः सर्वतो प्रथमः वर्णः‚ एवं विधा अण् प्रत्याहारे अ‚इ‚उ वर्णाः गण्यन्ते । ण् इत्संज्ञत्वात् नैव परिगण्यते ।

इति

टिप्पणियाँ