सन्धि

सन्धि: इत्‍यस्‍यार्थ: मेलनम् इति अस्ति । लघुसिद्धान्‍तकौमुद्यां संज्ञाप्रकरणस्‍य अनन्‍तरं सन्धि प्रकरणम् आगच्‍छति । सन्धिं व्‍याकरणे संहिता अपि कथ्‍यते । पर: सन्निकर्ष: संहिता - वर्णानाम् अतिशयसामीप्‍यं संहिता इति कथ्‍यते । अस्मिन् विषये अन्‍यत्रापि कथ्‍यते - 

संहितैकपदे नित्‍या नित्‍या धातूपसर्गयो: ।
नित्‍या समासे वाक्‍ये तु सा विवक्षामपेक्षते ।। 
 अर्थात् एकस्य पदस्‍य भिन्‍नावयवेषु, धातुषु, उपसर्गेषु, समासेषु च सन्धि: अवश्‍यमेव करणीया । वाक्‍यस्‍य भिन्‍नपदेषु सन्धि: तु वक्‍ताया: इच्‍छोपरि भवति ।

 
इति

टिप्पणियाँ

  1. सन्धिः पुंसि । सन्धिः करणीयः इति साधुः । वक्तृशब्दः ऋकारान्तः । वक्तायाः इति न भवति, वक्तुः इति सुवचम् ।

    जवाब देंहटाएं

एक टिप्पणी भेजें