बाह्य प्रयत्‍न: (यत्‍न:)

वर्णस्‍य मुखात् बहिरागमनसमये या चेष्‍टा भवति स: तु बाह्यप्रयत्‍न: इति कथ्‍यते । बाह्यप्रयत्‍न: एकादशधा भवति । बाह्यस्‍तु एकादशधा एते अधोक्‍ता: सन्ति ।
  1. विवार: - विवारस्‍य अर्थ: मुखस्‍य उद्घाटनमिति अस्ति - ''विवारयति विकासयति मुखमिति'' । अर्थात् वर्णोच्‍चारणे मुखोद्घाटनं विवार: इति कथ्‍यते ।
  2. संवार: - वर्णानामुच्‍चारणे मुखस्‍य संकोच: (अल्‍प उद्घाटनम्) संवार इति कथ्‍यते ।
  3. श्‍वास: - येषामुच्‍चारणे श्‍वास: च‍लति इत्‍युक्‍ते येषामुच्‍चारणे मुखात् अधिकवायु: निर्गच्‍छति तत्र श्‍वासप्रयत्‍न: उच्‍यते ।
  4. नाद: - मधुरा ध्‍वनि: नाद इति कथ्‍यते ।
  5. घोष: - वर्णोच्‍चारणे गुंजनं घोष इति कथ्‍यते ।
  6. अघोष: - गुंजनस्‍याभाव: अघोष इति कथ्‍यते ।
  7. अल्‍पप्राण: - वर्णोच्‍चारणे प्राणवायो: अल्‍पप्रयोग: अल्‍पप्राण इति कथ्‍यते ।
  8. महाप्राण: - वर्णोच्‍चारणे प्राणवायो: अतिप्रयोग: महाप्राण इति कथ्‍यते ।
  9. उदात्‍त: - उच्‍चारणावयवानां उच्‍चभागै: उच्‍चारणम् उदात्‍त: ।
  10. अनुदात्‍त: - उच्‍चारणावयवानां निम्‍नभागै: उच्‍चारणम् अनुदात्‍त: ।
  11. स्‍वरित: - समभागैरुच्‍चारणं स्‍वरित इति कथ्‍यते ।


इति

टिप्पणियाँ

एक टिप्पणी भेजें