सन्धिविषये केषांचनजनानां भ्रम: अस्ति यत् वाक्ये सन्धे: आवश्यकता वैकल्पिकरूपेण भवति - ते उदाहरणरूपेण प्रस्तुतकारिकां प्रस्तुवन्ति -
इति
सहितैकपदे नित्या नित्या धातूपसर्गयो: ।
नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ।।
निश्चयेन कारिकानुसारेण वाक्यान्तर्गतपदानां मध्ये सन्धि: वैकल्पिकमस्ति । किन्तु अस्य विकल्पत्वम् अपि सीमाबद्धमस्ति । संहिताशब्दस्य भावमस्ति - स्वरव्यंजनयो: परस्परमनन्तरागमनम् । किन्तु सन्धिनियमानां प्रभाव: तदैव भवति यदा वाक्यगतशब्देषु संहिता-विरामं वा न भवतु । विरामे एव सन्धि नैव भवति यथा - ''मित्र, एहि, अनुगृहाणेमं जनम् ।'' अत्र मित्र च एहि च द्वयोरपि मध्ये विरामम् अपेक्षितमस्ति, किन्तु अनुगृहाण इमं च मध्ये विरामम् अपेक्षितं नैव । पद्ये तु यदि सन्धे: अवसर: भवतु तथापि सन्धि: न क्रियते चेत् विसन्धिदोष: भवति- ''न संहितां विवक्षामीत्यसन्धानं पदेषु यत्तद्विसन्धीति निर्दिष्टम्'' (काव्यादर्श) । श्लोकस्य प्रथम-तृतीयचरणयो: कृते विरामं विद्वद्भि: नैव अपेक्षितम्, अत: अत्र सन्धि: अनिवार्यरूपेण भवेत् ।बाणभट्ट-सुबन्धुआदय: स्व-गद्येषु वाक्यान्तर्गतपदेषु अपि सदैव सन्धिं प्रयुज्ज्यन्ते । इति
टिप्पणियाँ
एक टिप्पणी भेजें