यत्नः (प्रयत्नः) ।।

वर्णोच्चारणे कृताः चेष्टाः यत्नः प्रयत्नः* वा इति कथ्यते ।
यत्नः  दि्वधा आभ्यन्तरो‚ बाह्यश्च ।।

आभ्यन्तर प्रयत्नः – वर्णसमुदायस्य मुखात् बहिरागमनात् पूर्वं मुखे एव यः यत्नः क्रियते सः आभ्यन्तरयत्नः प्रयत्नः वा इति उच्यते ।
एते यत्नाः पंचधा – स्पृष्टः‚ ईषत्स्पृष्टः‚ ईषद्विवृतः‚ विवृतः‚ संवृतश्च ।
  
बाह्य प्रयत्नः –  मुखात् बहिरागमनसमये एव यः यत्नः भवति सः तु बाह्य प्रयत्नः इति उच्यते । एते यत्नाः एकादशधा – विवार‚ संवार‚ श्वास‚ नाद‚ घोष‚ अघोष‚ अल्पप्राण‚ महाप्राण‚ उदात्त‚ अनुदात्त‚ स्वरित च ।


* प्रकृष्टो यत्नः प्रयत्नः ।  

इति

टिप्पणियाँ