आभ्यन्तर यत्नम् (प्रयत्नं) ।।

आभ्यन्तरप्रयत्नं पंचधा भवति – आद्यः (आभ्यन्तरप्रयत्नं) पंचधा – स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात् ।

स्पृष्टम् –  स्पृष्टं प्रयत्नं स्पर्शानां  – स्पर्शवर्णानां (क्‚च्‚ट्‚त्‚प् वर्गाणां) प्रयत्नः स्पृष्टम् ।
ईषत्स्पृष्टम् –  ईषत्स्पृष्टमन्तस्थानां  –  अन्तस्थानां (य्‚ व्‚ र्‚ ल्) प्रयत्नः ईषत्स्पृष्टम् ।
ईषद्विवृतम् – ईषद्विवृतमूष्माणां  – उष्माणां (श्‚ ष्‚ स्‚ ह्) प्रयत्नः ईषद्विवृतम् ।
विवृतम् –  विवृतंस्वराणाम् –  स्वराणां (अ‚ इ‚ उ‚ ऋ‚ लृ‚ ए‚ ओ‚ ऐ‚ औ) प्रयत्नः विवृतम् ।
संवृतम् –  हृस्वस्यावर्णस्य प्रयोगे संवृतम्‚ प्रक्रियायां तु विवृतमेव – हृस्व अ वर्णस्य प्रयोगः संवृतम् किन्तु प्रक्रियायां तु विवृतमेव भवति ।

इति

टिप्पणियाँ