सर्वेषु नियमेषु केषांचनापवादाः भवन्ति एव । तस्मिन् एव क्रमे अत्रापि केचन् अपवादाः सन्ति अधोक्ताः ।।
अक्षादूदिन्यामुपसंख्यानम् (वार्तिकम्) – अक्ष + ऊहिनी = अक्षौहिणी इति भविष्यति । अत्र गुण संधिः न भविष्यति ।
स्वादीरेरिणो: (वार्तिकम्) - 'स्व' शब्दस्यानन्तरं यदा 'ईर' उत 'ईरिन्' शब्दौ आगच्छत: चेत् गुणं अभूत्वा वृद्धि: भवति ।
यथा - स्व + ईरः = स्वैरः,
स्व + ईरिणी = स्वैरिणी,
स्व + ईरी = स्वैरी
प्रादूहोढोढ्ये षैष्येषु (वार्तिकम्) - यदा 'प्र' इत्यस्यानन्तरं ऊह, ऊढ, ऊढि, एष, एष्य आगच्छेयु: चेत् गुणम् अभूत्वा पुन: वृद्धिरेव भवति । यथा -
प्र + ऊहः = प्रौहः
प्र + ऊढः = प्रौढः
उपसर्गादृति धातौ ।6।1।91। - यदि अकारन्त उपसर्गात् अनन्तरं सा धातु: आगच्छेत् यस्यादौ लघु ऋकार: भवतु चेत् द्वयो: स्थाने 'आर्' इति भवति । यथा -
उप + ऋच्छति = उपार्च्छति
यदि नामधातु: भवतु चेत् 'आर्' विकल्पेन भवति । यथा -
प्र + ऋषभीयति = प्रार्षभीयति
ऋते च तृतीया समासे (वार्तिकम्) - यदा ऋत् पदेन सह कस्यचित् पूर्वगामीशब्दस्य तृतीया समास: भवतु चेत् अपि पूर्वगामी अकारान्तशब्दस्य 'अ' 'ऋत्' च मिलित्वा 'आर्' एव भविष्यति 'अर्' नैव । यथा -
सुखेन ऋतः = सुखार्तः
ऋत्यक: ।6।1।28। - (ऋति परे पदान्ता अक: प्राग्वत्) - यदा अ, आ, इ, ई, उ, उ, ऋ, दीर्घ ऋ, लृ वा च पदान्ते भवन्ति, एतेषामनन्तरं 'ऋ'कार: च आगच्छेत् चेत् पदान्त अक् विकल्पेन हृस्व भवन्ति, अयं नियम: गुणसन्धे: विकल्पम् उपस्थापयति । यथा -
ब्रह्मा + ऋषिः = ब्रह्मर्षिः
इति

टिप्पणियाँ
एक टिप्पणी भेजें