साङ्ख्यकारिकायाः शब्दकोश: ।।

सङ्केतसूची - 
(पुं) - पुंलिङ्गम् (स्त्री) – स्त्रीलिङ्गम् (नपुं) – नपुंसकलिङ्गम् 
(विशे) - विशेषणम् प्र. - प्रस्तुतस्थले (अ.) – अव्ययम् 
(विधे.) - विधेयम्। 
कंसस्थसङ्ख्या कारिकाङ्कं द्योतयति।

अङ्कुशः (पुं) (50)अष्टसु सिद्धिषु विघ्न:।
अचेतनम् (विशे.) (17) जडम् । प्र. लिङ्गम् इत्यस्य विशे.।
अतिशय: (पुं) (2) तादृशी स्थिति: यत्र एकस्य सुखाद् अन्यस्य सुखम् अधिकम्।
अत्यन्तत: (अ.) (1) पूर्णत:।
आत्यन्तिकम् (विशे.) (68) पूर्णम् । प्र. कैवल्यम् इत्यस्य विशे.।
अदृष्ट: (विशे.) (30) प्रत्यक्षम् । प्र. विषय: इत्यस्य विशे.।
अधस्तात् (अ.) (44) निकृष्टलोक:।
अधिष्ठानम् (नपुं) (17) आश्रय:।
अध्ययनम् (नपुं) (50) गुरूच्चारणपूर्वकम् अनूच्चारणम्। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।
अध्यवसाय: (पुं) (5,23) प्रत्यक्षज्ञानार्थं बुद्धितत्वस्य व्यापारविशेष:। यथा-सविषयम् इन्द्रियं बुद्धौ प्रतिबिम्बितं भवति। एतादृशी प्रतिबिम्बयुता बुद्धि: चैतन्ये प्रतिबिम्बिता भवति। तत्र चैतन्यस्य प्रकाशेन प्रकाशिता भवति। तेन प्रकाशेन स्वगृहीतं विषयम् अपि प्रकाशयति।
अनवस्थानम् (नपुं) (7) स्वस्थानत: च्युति:।
अनुपलब्धि: (स्त्री.) (8)अज्ञानम् ।
अन्त:करणम् (नपुं) (33,35) देहान्तर्गतं ज्ञानसाधनम्।
अन्धतामिस्र: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:। भयम्।
अन्योन्यजननम् (नपुं) (12) परस्परं जननम्।
अन्योन्यमिथुनम् (नपुं) (12) परस्परं सङ्गति:।
अन्योन्याभिभव: (पुं) (12) परस्परं पराभव:।
अन्योन्याश्रय: (पुं) (12) परस्परम् आश्रय:।
अपघातक: (विशे.) (1) अपघातं करोति इति अपघातक:। नाशकर: इत्यर्थ:। प्र. हेतुशब्दस्य विशे.।
अपवर्ग: (पुं) (44) मोक्ष:।
अपार्था (विशे.) (1) निरर्थकी। प्र. जिज्ञासा इत्यस्य विशे.।
अपार्थकम् (अ.) (60) स्वप्रयोजनरहितम् ।
अभिघात: (पुं) (1)प्र. संयोग:।
अभिभव: (पुं) (7)पराभव:।
अभिमान: (पुं) (24) अहम् इति तथा मम इति भावना।
अयुगपत्प्रवृत्ति: (स्त्री.) (18) युगपत् नाम समानकाले ।प्रवृत्ति: प्रयत्न:। समानकाले प्रयत्नस्य अभाव: इत्यर्थ:।
अर्थ: (पुं) (13) पुरुषार्थ:।
अविकृति: (स्त्री.) (3) न विकृति:। विकृति: नाम कार्यं , परिणाम:। अविकृति: नाम तादृशं तत्त्वं, यत् कस्य अपि अन्यतत्त्वस्य परिणामस्वरूपं नास्ति। प्र. मूलप्रकृति:।
अविवेकि (विशे.) (11) विवेकरहितम्। विवेक: अत्र विवेचनम् पृथक्करणं वा।प्र. व्यक्तं तथा प्रधानम् इत्यनयो: विधे.।
अविशेष: (विशे.) (34,38) सूक्ष्म:। प्र. विषय: इत्यस्य विशे.।
अव्यक्तम् (नपुं) (2,10,14,16,58) - प्रकृतितत्त्वम्।
अव्यापि (विशे.) (10)- अव्यापकम् ।प्र. व्यक्तम् इत्यस्य विधे.।
अशक्ति: (स्त्री.) (46,47,49)- असामर्थ्यम्।
अष्टविकल्प: (पुं) (53)- अष्टप्रकारक:। प्र. दैवसर्ग: इत्यस्य विधे.।
असक्तम् (विशे.) (40)-अकुण्ठितम्। प्र. सूक्ष्मशरीरम् इत्यस्य विशे.।
असत् (विशे.) (8) - अभावरूपम्। प्र. कार्यम् इत्यस्य विशे.।
अहङ्कार: (पुं) (22,24) अभिमानकर्मकं तत्त्वम्।
- - - - -
आध्यात्मिकी (विशे.) (50) - आत्मविषये । प्र. तुष्टि:इत्यस्य विशे.।
आनुश्रविक (विशे.) (2) - अनुश्रव: नाम वेद:। अनुश्रवे प्रतिपादित: आनुश्रविक:।प्र. दु:खनाशकहेतु: इत्यस्य विशे.।
आप्तश्रुति: (स्त्री.) (5)-आप्त: नाम: युक्त: योग्यताधर्मेण युक्त:।श्रुति: नाम शाब्दबोध:।योग्यताधर्मेण युक्त: शाब्द-बोध: आप्तश्रुति:।
आभन्तरम् (विशे.) (33) -यद् देहस्य अंतर्भागे कार्यं करोति।प्र. करणम् इत्यस्य विशे.।
आलोचनम् (नपुं) (28) -दर्शनम्।
आहरणकरम् (विशे.) (32)-वचनम् आदानं, विहरणम् उत्सर्जनम् आनन्द: इति एतेषां पञ्चानां कर्मणाम् आहरणम् इति संज्ञा।आहरणं करोति इति आहरणकरम्। प्र. करणम् इत्यस्य विशे.।
- - - - -
इन्द्रियम् (नपुं) (26,27,49)-सात्त्विकाहङ्कारजं तत्त्वम्।
- - - - -
उ उदासीन: (पुं) (20) -रागद्वेषशून्य:।
उपरम: (पुं) (50)-वैराग्यम्।
उपलब्धि: (स्त्री.) (8)- ज्ञानम्।
उपस्थम् (नपु.) (26)-आनन्दकर्मकरम् इन्द्रियम्।
उपष्टम्भकम् (विशे.) (13) - प्रेरकम्। प्रवर्तकम्।प्र. रज: इत्यस्य विधे.।
उपादानम् (नपुं) (9) - कार्येण सह नित्यं सम्बद्धं कारणम्।यथा घटस्य उपादानं मृत्तिका।
उपादानम् (नपुं) (50) - आध्यात्मिकतुष्टे: अन्यतर: भेद:।कैवल्यार्थं प्रव्रज्यारूपस्य साधनस्य उपादानमात्रेण स्वीकारमात्रेण तुष्टि: इत्यर्थ:।
उभयात्मकम् (विशे.) (27) - ज्ञानेन्द्रियं तथा कर्मेन्द्रियम् इति उभयविधं यस्य स्वरूपम् अस्ति तत् । प्र. मन: इत्यस्य विशे.।
- - - - -
ऊर्ध्वम् (अ.) (44,54) -उत्तमलोक:।
ऊह: (पुं) (50)-वेदार्थानुकूलेन तर्केण वेदार्थपरीक्षणम्। पूर्वपक्ष-निरासपूर्वकम् उत्तरपक्षस्थापनम्। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।
- - - - -
एकादशक: (विशे.) (24)-एकादशानाम् इन्द्रियाणां समूह:।प्र. गण: इत्यस्य विशे.।
एकान्त: (पुं) (1,68) -निश्चय:।
- - - - -
ऐकान्तिकम्(विशे.) (68) अवश्यंभावि।प्र. कैवल्यम् इति एतस्य विशे.।
ऐश्वर्यम् (नपुं) (45) बुद्धे: विशेष:।अणिमा, महिमा, लघिमा, प्राप्ति:, प्राकाम्यं, वशित्वम्, ईशित्वम्, सत्यसकल्पता इति एता: अष्टौ सिद्धय: ऐश्वर्यसंज्ञका:।
- - - - -
औत्सुक्यम् (नपुं) (58) -इच्छा।
- - - - -
करणम् (नपुं) (18,32,35)-5 ज्ञानेन्द्रियाणि, 5 कर्मेन्द्रियाणि, मन:, बुद्धि:, अहङ्कार: इति एतद् आहत्य करण-संज्ञकं भवति।
करणम् (नपुं) (43)-प्र. बुद्धि:।
करणवैकल्यम् (नपुं) (47)- इन्द्रियाणाम् असामर्थ्यम्।
कर्ता (पुं) (20) -क्रियायां स्वतन्त्र:।
कललाद्या: (विशे.) (33)-कलल: नाम गर्भस्य द्रवावस्था। कलल: आद्य: येषां ते कललाद्या:। प्र. स्थूलदेहभावा: इत्यस्य विशे.।
कारिका (स्त्री.) (ग्रन्थनाम्नि)-अल्पाक्षरत्वे सति बह्वर्थज्ञापकं पद्यम्।
कार्यम् (नपुं) (43)-प्र. स्थूलदेह:।
काल: (पुं) (50)-आध्यात्मिकतुष्टे: अन्यतर: भेद:।“‘ कालेन मम कैवल्यप्राप्ति: भविष्यति इति भावना ।’ ‘
कैवल्यम् (नपुं) (17,19,21,68)-प्रकृतिपुरुषविवेकदर्शनात् पुरुषस्य स्वरूपेण अवस्थानम्।
- - - - -
गुणकर्तृत्वम् (नपुं) (20) -त्रिगुणानां कर्तृत्वम्।
गुणपरिणामविशेष: (पुं) (27)-गुणा: नाम त्रिगुणा: ।तेषां परिणाम: नाम कार्यम्। तस्मिन् गुणकार्ये विशेष: नाम वैचित्र्यम्।
गुणविशेष: (पुं) (36)-गुणा: अत्र सत्त्वसजस्तमांसि। विशेष: नाम विकार: । त्रिगुणानां विकाररूप: इत्यर्थ:।
गुणवैषम्यविमर्द: (पुं) (46) -गुणा: अत्र त्रिगुणा:। तेषु वैषम्यं नाम न्यूनाधिकभाव:।तेन न्यूनाधिकभावेन जात: परस्परं विमर्द: नाम पराभव:। - -
- - -
घोर: (विशे.) (38)-दु:खकर:।प्र. भूतानि इति एतेषां विशे.।
घ्राणम् (नपुं) (26)-गन्धग्राहकम् इन्द्रियम्।
चक्षु: (नपुं) (18) रूपग्राहकम् इन्द्रियम्।
- - - - -
जन्म (नपुं) (18) देहेन्द्रियादिसङ्घातेन सह पुरुषस्य सम्बन्ध:।
जिज्ञासा (स्त्री.) (1) ज्ञातुम् इच्छा।
ज्ञ: (पुं) (2) ज्ञाता ।पुरुषतत्त्वम् ।
ज्ञानम् (नपुं) (44) प्रकृति: तथा पुरुष: परस्परं भिन्नौ इति प्रकृति-पुरुष-विवेकस्य बोध:।
- - - - -
तन्मात्रा: (स्त्री.) (24,38) भूतादे: अहङ्कारात् जातानि 5 तत्त्वानि।
तम: (पुं) (48) पञ्चसु विपर्ययेषु (मिथ्याज्ञानेषु) अन्यतम:। अव्यक्तं, महत् अहङ्कार:,तथा पञ्च तन्मात्रा: इति एतेषु अष्टसु तत्त्वेषु आत्मदृष्टिभावनम्।
तामस: (विशे.) (25)अहङ्कारस्य अन्यतम: भेद:। भूतानां कारणम्। प्र. अहङ्कार: इत्यस्य विशे.। तामस: (भूतादि:) अहङ्कार: इति।
तामिस्र: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:।द्वेष:
तुष्टि: (स्त्री.) (46,47,49,50) बुद्धे: धर्म:।
तैजस: (विशे.) (25) अहङ्कारस्य अन्यतम: भेद:।सात्त्विक-तामसयो: अहङ्कारयो: प्रेरक:। प्र. अहङ्कार: इत्यस्य विशे.। तैजस: अहङ्कार: इति।
तैर्यग्योन: (विशे.) (53) तिर्यग्योनिषु जातानाम् । प्र. सर्ग: इत्यस्य विशे.।
त्रिकालम् (विशे.) (33) त्रिषु कालेषु कार्यं कर्तुं समर्थम् ।प्र. आभ्यन्तरकरणम् इत्यस्य विधे..।
त्रिगुणादिविपर्यय: (पुं) (17) त्रिगुणादिभ्य: भेद:।
त्रैगुण्यविपर्यय: (पुं) (18) त्रिगुणानां तरतमभाव:।
त्वक् (स्त्री.) (26) स्पर्शग्राहकम् इन्द्रियम्।
- - - - -
दानम् (नपुं) (50) शुद्धि:।विक्षेपदोषरहिता विवेकख्याति:।अष्टसु सिद्धिषु अन्यतमा सिद्धि:।
दु:खत्रयम् (नपुं) (1) त्रयाणां दु:खानां समाहार:।आध्यात्मिकम् आधिदैविकम् आधिभौतिकं च इति एतद् दु:खत्रयम्।
दु:खविघात: (पुं)(50) दु:खत्रयस्य नाश:। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।
दृष्ट: (विशे.) (1) लौकिक:।प्र. दु:खनाशकहेतु: इत्यस्य विशे.।
दृष्ट: (विशे.) (30) प्रत्यक्षम् । प्र. विषय: इत्यस्य विशे.।
दृष्टम् (विशे.) (4) प्रत्यक्षम् । प्र. प्रमाणम् इत्यस्य विशे.।
दैव: (विशे.) (53)देवानाम्। प्र. सर्ग: इत्यस्य विशे.।
द्वारम् (नपुं) (35)गौणम् ।
द्वारि (नपुं) (35)प्रधानम्।
- - - - -
धर्म: (पुं) (23,44) यस्मात् साधनात् ऐहिकोत्कर्षस्य मोक्षस्य च सिद्धि: भवति तत् साधनम्।
धर्माद्या: (वि.) (43)धर्म: आद्य: येषां ते धर्माद्या:। धर्म:, अधर्म:, ज्ञानम्, अज्ञानम्, वैराग्यम्, आसक्ति:, ऐश्वर्यम्, अनैश्वर्यम् इति अष्टौ बुद्धे: विशेषा:।
धारणकरम् (विशे.) (32) धारणं नाम देहादिसङ्घातस्य प्रवर्तनम्।तत् करोति इति धारणकरम्। प्र. करणम् इत्यस्य विशे.।
धार्यम् (विशे.) (32) धारणकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.।शरीरम् इति यावत्।
- - - - -
निमित्तम् (नपुं) (42)कारणम् । प्र. धर्माधर्मादय:भावा:।(कारिका23)
नियतम् (विशे.) (40) नित्यम् ।प्र. सूक्ष्मशरीरम् इत्यस्य विशे.।
निरुपभोगम् (वि.) (40)उपभोगसामर्थ्यरहितम् ।
नैमित्तिकम् (नपुं) (42)कार्यम्। प्र. स्थूलदेह:।
- - - - -
परस्पराकूतहेतुका (विशे.) (31) आकूतं नाम अभिप्राय:। हेतु: नाम कारणम्। प्र. वृत्ति: इत्यस्य विशे.। मन: बुद्धि: अहङ्कार: इति एतेषां त्रयाणां परस्परं य: अभिप्राय: स: एव कारणम् अस्ति यस्या: वृत्ते: तादृशी वृत्ति: इत्यर्थ:।
परार्थ: (पुं) (17) पर: नाम अन्य:।परार्थ: नाम अन्यस्य कृते ।
परिणाम: (पुं) (16) परिवर्तनम्।
परिमाणम् (नपुं) (15) अव्यापकत्वम्।मर्यादा।
पाणि: (पु.) (26) आहरणकर्मकरम् इन्द्रियम्।
पाद:(पु.) (26) विहरणकर्मकरम् इन्द्रियम्।
पायु: (पु.) (26) विसर्जनकर्मकरम् इन्द्रियम्।
पुमान् (पुं) (11,60) पुरुषतत्त्वम् ।
पुरुष: (पुं) (3,17,18,21,36,37,55,56,57,58,59,61,65) पुरि शेते इति पुरुष:।पुर् नाम नगरम्। तत्र शेते निवसति इति पुरुष:।
पुरुषार्थ: (पुं) (31,41,63,69)पुरुषस्य प्रयोजनम्।
प्रकाशकरम् (विशे.) (32)प्रकाश: नाम प्रकटं, व्यक्तम्।प्रकटं करोति, व्यक्तं करोति इति प्रकाशकरम्। प्र. करणम् इत्यस्य विशे.।
प्रकाश्यम् (विशे.) (32)प्रकाशनकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.। शरीरम् इति यावत्।
प्रकृति: (स्त्री.) (22,42,45,56,59,61,62,63,65) सत्त्वरजस्तमसां साम्यावस्था।
प्रकृति: (स्त्री.) (50)आध्यात्मिकतुष्टे: अन्यतर: भेद:।प्रकृतियोगेन तुष्टि: इत्यर्थ:।
प्रतिनियम: (पुं) (18)व्यवस्था।
प्रतिप्रतिगुणाश्रयविशेष: (पुं) (16)प्रत्येकं प्रत्येकं गुण: नाम प्रतिप्रतिगुण:।तस्य एकस्य एकस्य गुणस्य आश्रय: प्रतिप्रति-गुणाश्रय:। विशेष: नाम वैचित्र्यम्। एकस्य एकस्य गुणस्य आश्रयात् जातं वैचित्र्यं नाम प्रति-प्रतिगुणाश्रयविशेष: ।
प्रतिविषयम् (नपुं) (5)विषय-सन्निकृष्टम् इन्द्रियम्।अस्य पदस्य अर्थे इन्द्रियम्, तस्य अर्थ:, तथा च तयो: सन्निकर्ष: इति एतत् सर्वं गृहीतम्।
प्रतीति: (स्त्री.) (6)अनुभूति:।
प्रत्ययसर्ग: (पुं) (46)प्रत्यय: नाम बुद्धि: । सर्ग: नाम प्रपञ्च:।बुद्धे: प्रपञ्च: इत्यर्थ:।
प्रदीपकल्प: (विशे.) (36)दीप: इव।प्र.बाह्येन्द्रियाणि, मन: तथा च अहङ्कार: इति एतेषां विधे.।
प्रधानम् (नपुं) (11,21,37,57,68) प्रकृति:।
प्रभूतम् (नपुं) (39)आकाशादिमहाभूतम्।
प्रसङ्ग: (पुं) (42)आसक्ति:।
प्रसवधर्मि (विशे.) (11)प्रसव: नाम कार्यजननम्। कार्यजननम् इति धर्म: यस्य तत् तत्त्वम्।प्र. व्यक्तं तथा प्रधानम् इति उभयो: विशे.।
प्राकृतिक: (विशे.) (43)प्रकृत्या एव सिद्ध:, न तु उपायै: प्राप्त:। प्र. धर्मादिभावा: इत्यस्य विशे.।
प्राणाद्या: (विशे.) (29)प्राण: आद्य: येषां ते प्राणाद्या: । प्र. प्राण: उदान: समान: व्यान: अपान: च इति पञ्चानां वायुप्रकाराणां विशे.।
- - - - -
बुद्धि: (स्त्री.) (23,35,36,37,49)महत्तत्त्वम्।
बुद्धीन्द्रियम् (नपुं.) (26,34)ज्ञानेन्द्रियम् ।
- - - - -
भाग्यम् (नपुं.) (50) आध्यात्मिकतुष्टे: अन्यतरभेद: ।‘““भाग्येन एव मम कैवल्यलाभ: भविष्यति इति भावना।‘ ‘’
भाव: (पुं) (40) धर्म:, अधर्म: ज्ञानम् अज्ञानम्, वैराग्यम् आसक्ति: ऐश्वर्यम् अनैश्वर्यम् इति अष्टौ बुद्धे: धर्मा:।
भाव: (पुं) (52) प्रत्ययसर्ग:।
भूतम् (नपुं) (22,38,56,69)बहिरिन्द्रियग्राह्य: विशेषगुण: (शब्द-स्पर्श-रूप-रस-गन्धेषु अन्यतम:।) यस्मिन् विद्यते स: पदार्थ:।पृथिवी आप: तेज: वायु: आकाश: इति 5 भूतानि सन्ति।
भूतादि:(विशे.) (25)अहङ्कारस्य अन्यतम: भेद:। भूतानां कारणम्। प्र. अहङ्कार: इत्यस्य विशे.। भूतादि: (तामस:) अहङ्कार: इति।
भोक्तृभाव: (पुं) (17) सुखदु:खयो: अनुभविता भोक्ता। तस्य भाव:।
भौतिक: (विशे.) (53)भूतै: निर्मित:। प्र. सर्ग: इत्यस्य विशे.।
- - - - -
मरणम् (नपुं) (18) विद्यमानदेहादि-सङ्घातेन सह पुरुषस्य वियोग:।
महदाद्या: (सप्त) (स्त्री.) (3) महदादिसर्ग:।महत् अहङ्कार: तथा च 5 तन्मात्रा: इति आहत्य महदाद्या: (सप्त) ।
महत् (पुं) (22,56) सर्गारम्भे जायमानं तत्त्वम्।
महामोह: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:।विषयेषु आसक्ति:।
‘माध्यस्थ्यम् (नपुं) (19) सुखदु:खमोहै: अलिप्तत्वम्।
मानुष्य: (विशे.) (53) मनुष्याणाम्। प्र. सर्ग: इत्यस्य विशे.।
मूढ: (वि.) (38) अज्ञानस्वरूप:।प्र. भूतानि इति एतेषां विशे.।
मोह: (पुं) (48)पञ्चसु विपर्ययेषु अन्यतम:।अणिमादि ऐश्वर्यं मम अस्ति, तत् शाश्वतम् अस्ति अत: अहम् अमर:’ इति भावना।
- - - - -
युगपत् (अ.) (29) समानकाले ।
- - - - -
रसनम् (नपुं) (26) रसग्राहकम् इन्द्रियम्।
राजस: (विशे.) (45) रजोगुणप्रधान:। प्र. राग: इति एतस्य विशे.।
राग: (पुं) (45)आसक्ति:।
रूपम् (नपुं) (63,65)धर्माधर्मादय: अष्टौ बुद्धे: भावा:।
- - - - -
लिङ्गम् (नपुं) (5) अनुमाने हेतु:।यथा ‘‘पर्वत: वह्निमान्, धूमात्’ इति अनुमाने धूम: लिङ्गम् ।
लिङ्गम् (नपुं) (10) लक्षणम्। चिह्नम्।प्र. व्यक्तम् इत्यस्य विधे.।व्यक्तं प्रकृते: पुरुषस्य च चिह्नं भवति।
लिङ्गम् (नपुं) (40,41,42,55) सूक्ष्मशरीरम्।
लिङ्गम् (नपुं) (52) तन्मात्रासर्ग:।
लिङ्गि (नपुं) (5)अनुमाने साध्यम्।यथा‘‘पर्वत:वह्निमान् धूमात्’ इति अनुमाने वह्नि: लिङ्गि ।
- - - - -
वध: (पुं) (49) स्वकार्यकरणे असामर्थ्यम्।
वरणकम् (विशे.) (13) आवरकम्। प्र. तम: इत्यस्य विधे.।
वाक् (स्त्री.) (26,34)वचनकर्मकरम् इन्द्रियम्।
विकृति: (स्त्री.) (3) कार्यम्।
विपर्यय: (पुं) (46,47) मिथ्याज्ञानम्।
विभुत्वयोग: (पुं) (42) विभुत्वं नाम प्रभुत्वं, सामर्थ्यम् । तेन सह सम्बन्ध: विभुत्वयोग:।
विमोक्ष: (पुं) (56,57,58) त्रिविधदु:खात् मुक्ति:।
विलक्षण: (विशे.) (36) विविधं विरुद्धं वा लक्षणं यस्य। प्र. गुणविशेष: इत्यस्य विशे.।
विशेष: (विशे.) (34,38,41,56) स्थूल:। प्र. विषय: इत्यस्य विशे.।
विषय: (पुं) (11,34,35) ज्ञानग्राह्य: पदार्थ:।
विषयाख्यम् (नपुं) (33) विषयम् आख्याति निवेदयति ।
वृत्ति: (स्त्री.) (12,28,29,30) क्रिया ।व्यापार:।
वृत्ति: (स्त्री.) (13,) प्रवृत्ति:।
वैकृत: (विशे.) (25) अहङ्कारस्य अन्यतम: भेद:। प्र. अहङ्कार: इत्यस्य विशे.। वैकृत: (सात्त्विक:) अहङ्कार: इति।
वैकृतिक: (विशे.) (43) उपायै: प्राप्त: , न तु जन्मसिद्ध:। प्र. धर्मादि-भावा: इत्यस्य विशे.।
वैराग्यम् (नपुं) (45) ऐहिक-पारलौकिक-भोगानां विषये तृष्णाया: अभाव:।
वैश्वरूप्यम् (पुं) (15)नानाविधरूपम्।
व्यक्तम् (नपुं) (2,10,11) महदादिप्रपञ्च:।
व्यवधानम् (नपुं) (7) विघ्न:। यथा भित्ते: परत्र विद्यमानस्य घटस्य चाक्षुषप्रत्यक्षे भित्ति: इति व्यवधानम्।
- - - - -
शक्तम् (विशे.) (9) शक्त्या युक्तम्। प्र. शक्ति: नाम कार्यजनन-सामर्थ्यम्।तत् सामर्थ्यं यस्मिन् अस्ति तत् शक्तम्। प्र. कारणम् इत्यस्य विशे.।यथा घटजनने मृत्तिका शक्ता।
शक्ति: (स्त्री.) (15) कारणे विद्यमानं कर्यजननानुकूलं सामर्थ्यम्। एतत् सामर्थ्यम् एव कार्यस्य अव्यक्तदशा ।
शक्यम् (विशे.) (9) कारणगताया: कार्यजनकशक्ते: विषय: ।यत् कार्यं जनयितुं शक्ति: कारणे विद्यते तत् । प्र. कार्यम् इत्यस्य विशे.।यथा मृत्तिकया घट: शक्य:।
शब्द: (पुं) (50) अधीतानां शब्दानाम् अर्थस्य ज्ञानम्।अष्टसु सिद्धिषु अन्यतमा सिद्धि:।
शान्त: (विशे.) (38) सुखकर:।प्र. भूतानि इति एतेषां विशे.।
श्रोत्रम् (नपुं) (26) शब्दग्राहकम् इन्द्रियम्।
- - - - -
षोडशक (विशे.) (3,22) षोडशतत्त्वानां समूह:।5 महाभूतानि तथा 11 इन्द्रियाणि इति आहत्य 16 तत्त्वानि अस्मिन् समूहे समाविष्टानि। प्र. विकार:/गण: इत्यस्य विशे.।
- - - - -
सङ्कल्पकम् (विशे.) (27) सङ्कल्प इत्युक्ते कल्पना। सङ्कल्पं करोति इति। प्र. मन: इत्यस्य विधे.।
सङ्घात:। (पुं) (17) समानधर्मवतां परस्परसम्बन्ध:।यथा घट:। घट: हि समानधर्मवतां मृत्तिकाकणानां परस्परसम्बन्धरूप:।
सत् (विशे.) (9) भावरूपम्। प्र. कार्यम् इत्यस्य विधे.।
समन्वय: (पुं) (15) विभिन्नानां पदार्थानाम् एकरूपत्वम्।
समानाभिहार: (पुं) (7) समानानां पदार्थानाम् एकत्र स्थिति:।
समुदय: (पुं) (16) समानकाले उदय:। कार्यार्थम् एकत्र प्रवृत्ति:।
सर्ग: (पुं) (21,53,54,66) सृष्टि:।
सांसिद्धिक(विशे.) (43) प्रकृत्या एव सिद्ध:, न तु उपायै: प्राप्त:। प्र. धर्मादिभावा: इत्यस्य विशे.।
'साक्षित्वम् (नपुं) (19) उदासीनत्वे सति बोद्धृत्वम्।
साङ्ख्यम् (वि.) (ग्रन्थनाम्नि) सम्यग् विविच्य ख्यायन्ते प्रकटीक्रियन्ते तत्त्वानि प्रकृतिपुरुषपदार्थरूपाणि यस्मिन्, तत् शास्त्रम्।प्र. शास्त्रम् इति एतस्य विशे.।
सामान्यकरणवृत्ति: (स्त्री.) (29) सामान्या च करणवृत्ति: च सामान्यकरण-वृत्ति:। त्रयाणां करणानां मनोबुद्ध्यहङ्कार-संज्ञकानां साधारण: व्यापार: इत्यर्थ:।
साम्प्रतकालम् (विशे.) (33) वर्तमानकालिकम्। प्र. बाह्यकरणम् इत्यस्य विधे.।
सिद्धि: (स्त्री.) (46,47,49,50,51) बुद्धे: धर्म:।
सुहृत्प्राप्ति: (50)वेदार्थनिर्णयार्थं सहायकस्य वादिन: प्राप्ति:। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।
सुस्थ: (विशे.) (65) राजसतामसबुद्ध्या अकलुषित:। प्र. पुरुष: इत्यस्य विशे.।
सूक्ष्म: (विशे.) (39) प्रत्यक्षप्रमाणेन अग्राह्या:। प्र. विशेष: इत्यस्य विशे.।
स्तम्ब: (पुं) (54) तृणम्।
स्वालक्षण्यम् (नपुं) (29)स्वस्य लक्षणम्। लक्षणं नाम असाधारण: धर्म:।
- - - - -
हार्यम् (विशे.) (32)आहरणकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.।
हेतु: (पुं) (1,10,31) कारणम्।
हेतुमत् (विशे.) (10) हेतु: नाम कारणम्। हेतुना युक्तं हेतुमत्। सकारणमित्यर्थ:। प्र. व्यक्तम् इत्यस्य विधे.।

आचार्य शशांक शेखर शुल्ब


इति

टिप्पणियाँ