प्रवेशक:

प्रवेशको*नुदात्‍तोक्‍त्‍या नीचपात्रप्रयोजित:
अंकस्‍यान्‍तर्विज्ञेय: शेषं विष्‍कम्‍भके यथा ।।
।।साहित्‍यदर्पण 6/57।।
प्रवेशकस्‍य प्रयोग: निम्‍नपात्रै: कार्यते । अस्मिन् उक्‍तय: उदात्‍त न भवन्ति अर्थात् अयं संस्‍कृतभाषाया: अतिरिक्‍तम् इत्‍युक्‍ते प्राकृतादिभाषायां सामान्‍यविधा कस्‍यचित् निम्‍नपात्रद्वारा क्रियते । अस्‍य प्रयोग: सदैव द्वयो: अंकयो: मध्‍ये एव भवति । प्रथमांके अस्‍य प्रयोग: नैव भवति । अन्‍यत् सर्वं विष्‍कम्‍भक इव भवति । यथा - वेणीसंहारनाटके तृतीयचतुर्थअंकयो: मध्‍ये राक्षसयुगलद्वारा सिन्‍धुराजवधं तथा च भावीदु:शासनवधस्‍य सूचना ।


इति

टिप्पणियाँ

एक टिप्पणी भेजें