विष्‍कम्‍भक:

वृत्‍तवर्तिष्‍यमाणानां कथांशानां निदर्शक: ।
संक्षिप्‍तार्थस्‍तु विष्‍कम्‍भ आदावंकस्‍य दर्शित: ।।
मध्‍येन मध्‍यमाभ्‍यां वा पात्राभ्‍यां संप्रयोजित: ।
शुद्ध: स्‍यात् स तु संकीर्णो नीचमध्‍यमकल्पित: ।।
।।साहित्‍यदर्पण 6/55-56।।
भूत-भविष्‍यकालस्‍य कथानां सूचक:, कथानां संक्षेपक:, अंकस्‍यारम्‍भे च प्रयुक्‍त: अर्थोपक्षेपक: 'विष्‍कम्‍भक' इति ज्ञायते । शुद्ध:, मिश्र: च भेदयो: द्विधैष: ।
1- यदा कश्चिदेकं मध्‍यमपात्रम् , मध्‍यमपात्रद्वयं वा अस्‍य प्रयोगं करोति चत् शुद्धविष्‍कम्‍भक इति कथ्‍यते । यथा मालतीमाधवम् नाटके पंचमअंकस्‍य प्रारम्‍भे कपालकुण्‍डला द्वारा प्रयोग: ।
2- यदा निम्‍न-मध्‍यमपात्रयो: द्वारा अयं प्रयुज्‍यते चेत् संकीर्ण उत मिश्रविष्‍कम्‍भक: निगद्यते । यथा रामाभिनन्‍दने क्षपणक: कापालिकश्‍च ।।


इति

टिप्पणियाँ