जालजगति संस्‍कृतसम्‍बन्धि अन्‍वेषणं कथं कुर्यात्

मित्राणि
भवतां बहव्‍य: समस्‍या: भवन्ति प्रायेण संस्‍कृतविषयाधिकृत्‍य यत् भवन्‍त: जालजगति अन्‍वेष्‍य अन्‍वेष्‍य आकुलीभवन्ति । किन्‍तु ता: समस्‍या: तासाम् समाधानानि च प्रायेण नैव प्राप्‍यते उत भ्रामकं समाधानं प्राप्‍यते, यतोहि जालजगति सर्वं तु अन्‍वेष्‍टुं शक्‍यं नैव अस्ति । अत: सम्‍प्रति यदि भवन्‍त: कमपि विषयम् अन्‍वेष्‍टुमिच्‍छन्ति चेत् निम्‍नरीत्‍या अन्विषन्‍तु । अनेन भवान् संस्‍कृतजगत: तस्‍य समाधानं प्राप्‍स्‍यति यदि संस्‍कृतजगति स: विषय: भवेत् । पुनश्‍च प्रायेण सर्वे विषया: ये आवश्‍यका: सन्ति ते संस्‍कृतजगति विराजन्‍ते एव । न सन्ति चेत् भविष्‍ये निश्‍चयेन भविष्‍यन्ति इति ।

एवं विधा भवता अन्‍वेष्‍ट: विषय: साक्षात् समाधानरूपेण भवत: सम्‍मुखं भविष्‍यन्ति । भवतां धनस्‍य समयस्‍यापि च रक्षणं भविष्‍यति । अन्‍यत् - य: विषय: संस्‍कृतजगति न प्राप्‍यते तस्‍य विषये अस्‍मान् सूचयन्‍तु कृपया । येन सद्यैव वयं तस्‍य विषयस्‍य प्रकाशनं कृत्‍वा संस्‍कृतजिज्ञासूनां सहायका: भवाम: । 

भवदीय:
डॉ. विवेकानन्‍द पाण्‍डेय:
संस्‍कृतजगत्

इति

टिप्पणियाँ