माहेश्‍वरसूत्राणि - संस्‍कृतप्रशिक्षणम् ।।

      मित्राणि
      माहेश्‍वरसूत्राणि संस्‍कृतजगति पूर्वमेव प्रकाशितानि सन्धि द्विधा किन्‍तु सम्‍प्रति पुन: प्रकाश्‍यते । यत: हि संस्‍कृतप्रशिक्षणस्‍य अस्मिन् नूतने संस्‍करणे एक: नूतनक्रम: चिन्तित: अस्ति । तेन एव क्रमेण क्रमश: एकं एकं पाठम् अत्र प्रकाशयाम: । भवद्भि: निवेदनमस्ति यत् प्रत्‍येकस्‍य पाठस्‍य अभ्‍यास: सम्‍यकतया अवश्‍यमेव करणीय: । प्रत्‍येकस्‍य पाठस्‍य वैशिष्‍ट्यमस्ति अत्र । यदि एकमपि पाठं त्‍यक्‍तं चेत् श्रृखला भंगा भविष्‍यति प्रशिक्षणे च काठिन्‍यमिति । अत्र वयं सरलसंस्‍कृतं लिखाम: येन सुकुमारबुद्धय: जना: अपि सम्‍यकतया अवगच्‍छेय: । मध्‍ये हिन्‍दीभाषायां कठिनशब्‍दानामर्थ: अपि दास्‍यते ।

।। अथ संस्‍कृतसम्‍भाषणलेखनप्रशिक्षणम् ।।

श्रीमाहेश्‍वरसूत्रम्

  1. अइउण् 
  2. ऋलृक् 
  3. एओड्. 
  4. ऐऔच् 
  5. हयवरट् 
  6. लण् 
  7. ञमड.णनम् 
  8. झभञ्
  9. घढधष् 
  10. जबगडदश् 
  11. खफछठथचटतव् 
  12. कपय् 
  13. शषसर् 
  14. हल्

माहेश्‍वरसूत्रस्‍य अपरं नाम शिवसूत्रम‍पि अस्ति । एतानि सूत्राणि अन्‍यत् किमपि न सन्ति किन्‍तु अस्‍माकं वर्णमाला इत्‍यस्ति । किन्‍तु अस्‍य स्‍वरूपं तथा निर्मितमस्ति येन अनेन प्रत्‍याहारनिर्माणं भवेत् । प्रत्‍याहार किमिति अग्रे पठाम: । एतानि सूत्राणि भवतां मस्तिष्‍के भवेत् इति । यदि स्‍मरणे काठिन्‍यमस्ति चेत् कृपया एतान् क्‍वचित् लिखित्‍वा स्‍थापयन्‍तु । सम्‍पूर्णं संस्‍कृतव्‍याकरणं (लौकिकं) एतेषामुपरि एव आधारितमस्ति ।

अवधेयम्
  1. माहेश्‍वरसूत्राणामाविष्‍कार: महर्षिपाणिनिना भगवत: शिवस्‍य डमरूनादेन कृत: ।
  2. माहेश्‍वरसूत्रम् - अष्‍टाध्यायी नामव्‍याकरणग्रन्‍थात् स्‍वीकृतमस्ति । 
  3. अष्‍टाध्‍यायी ग्रन्‍थस्‍य रचनाकार: - भगवान् पाणिनि: (वैयाकरणा: तं भगवान् इति वदन्ति, महर्षि उद्बोधनमपि पर्याप्‍तं)
  4. अष्‍टाध्‍याय्यां अष्‍टौ अध्‍याया:, द्वात्रिशत् पादा: (उपवर्गा:), प्रायेण चतुर्सहस्रसूत्राणि विद्यन्‍ते । 
  5. अस्‍य ग्रन्‍थस्‍योपरि एव कात्‍यायनस्‍य वार्तिकं, श्रीपतंजलिन: महाभाष्‍यं च पूरकग्रन्‍थरूपेण लिखितमासीत् ।
  6. अष्‍टाध्‍यायीग्रन्‍थस्‍य एव प्रकरणानि स्‍वीकृत्य वरदराजेन लघुसिद्धान्‍तकौमुदी नामकं ग्रन्‍थं विरचितम् ।


इति

टिप्पणियाँ

  1. संस्‍कृत सीखने के लिये चरणबद्ध तरीके से क्रमश: प्रकाशित किये जा रहे पाठों को याद करें । इस पाठ में माहेश्‍वर सूत्रों की प्रस्‍तुति है जो संस्‍कृतलौकिकव्‍याकरण की आत्‍मा है ।
    निश्‍चय ही इसके याद करने या न करने से कोई विशेष फर्क नहीं पडता किन्‍तु इसे याद कर लेने पर आपको आगे के कई सारे पाठों को समझने में आसानी होगी ।
    संस्‍‍कृतव्‍याकरण इन्‍ही माहेश्‍वरसूत्रों से बने प्रत्‍याहारों पर आधारित है । अत: इन्‍हे याद करने का भरसक प्रयत्‍न करें ।

    इस पृष्‍ठ पर संस्‍कृत की बाध्‍यता होने के कारण इस पाठ के अन्‍तर्गत हिन्‍दी का प्रयोग न्‍यूनतम हुआ है किन्‍तु सुहृद पाठक इसके सार को समझ सकें इसलिये इसका सारांश टिप्‍पणीमंजूषा में प्रस्‍तुत किया जा रहा है ।

    माहेश्‍वरसूत्रों का आविष्‍कार महर्षि पाणिनि ने जिन्‍हे कि वैयाकरण भगवान् की संज्ञा देते हैं, ने भगवान् महादेव के डमरूनाद के स्‍वरों से किया था ।
    महर्षिपाणिनि कृत ग्रन्‍थ अष्‍टाध्‍यायी लौकिक व्‍याकरण का प्रमुखतम ग्रन्‍थ है ।
    इस ग्रन्‍थ पर श्री आचार्य कात्‍यायन ने वार्तिक तथा श्री आचार्य पतंजलि ने महाभाष्‍य नामक पूरक ग्रन्‍थ लिखे हैं ।
    कालान्‍तर में आचार्य वरदराज ने इस ग्रन्‍थ पर लघुसिद्धान्‍तकौमुदी नामक प्रकरण ग्रन्‍थ लिखा । यह ग्रन्‍थ आज सर्वाधिक प्रचलन में हैं ।

    संस्‍कृत भाषा लिखना व बोलना सीखने के लिये इन माहेश्‍वर सूत्रों को आधार बनाकर प्रस्‍तुत करना निश्‍चय ही नया प्रयोग है किन्‍तु विश्‍वास करें , इस प्रयोग से संस्‍कृत सीखने में अधिकतम सहायता प्राप्‍त होगी ।

    धन्‍यवाद

    जवाब देंहटाएं

एक टिप्पणी भेजें