वर्णमालाज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

       वर्णमाला इत्‍युक्‍ते वर्णानां क्रम: । सर्वाषु भाषासु वर्णमाला भवत्‍येव । वर्णमालाया: उपरि एव भाषा: आधारिता: भवन्ति । संस्‍कृतस्‍य तु वर्णमाला नितान्‍तवै‍ज्ञानिकी अस्ति । अस्‍या: वर्णमालायां यावान् अपि वर्णा: सन्ति ते नैव कल्पिता:, अनर्थका: वा । ते सर्वे तु विशिष्‍टध्‍वनय: सन्ति । एतेषां विस्‍तृतवर्णनं अग्रे करिष्‍यते ।
       संस्‍कृतवर्णमाला स्‍वरव्‍यंजनभेदयो: द्विधा ।
स्‍वरा: 
अ आ इ ई उ ऊ ऋ ऋृ 
लृ ए ऐ ओ औ अं अ: 

(हिन्‍दीभाषायामपि एते एव स्‍वरा: सन्ति किन्‍तु तत्र लृ तु नास्‍त्‍येव) 

अष्‍टाध्‍यायी अनुसारेण संस्‍कृतभाषायां नव स्‍वरा: केवलं - 
अ इ उ ऋ लृ ए ओ ऐ औ
(अइउण्, ऋलृक्, एओड्., एेऔच्)

अस्‍यैव अन्‍ये भेदा: लघु, दीर्घ, प्‍लुतत्‍वात् ।


व्‍यञ्जनानि 

कवर्ग: - क् ख् ग् घ् ड्.
चवर्ग: - च् छ् ज् झ् ञ्
टवर्ग: - ट् ठ् ड् ढ् ण्                ---- उदिता:
तवर्ग: - त् थ् द् ध् न्
पवर्ग: - प् फ् ब् भ् म्
अन्‍तस्‍था: - य् र् ल् व्                ---- अन्‍तस्‍था:
उष्‍माण: - श् ष् स् ह्                ---- उष्‍माण: 

अवधेयम् - 

  1. लृ वर्ण: अन्यभाषासु (हिन्‍द्यामपि) नैव प्राप्‍यते । 
  2. अ इ उ ऋ लृ - स्‍वरा: हृष्‍व (लघु:) सन्ति । 
  3. आ ई ऊ ऋृ - स्‍वरा: दीर्घ (गुरु:) सन्ति
  4. ए ओ ऐ औ - नित्‍यदीर्घस्‍वरा: सन्ति । एतेषां लघुत्‍वं नैव भवति ।
  5. लृ वर्णस्‍य दीर्घत्‍वं न भवति । 
  6. एतेषां सर्वेषां वर्णानां प्‍लुतत्‍वं (3 मा‍त्रा) भवति ।
  7. लघु इत्‍युक्‍ते (1 मात्राकालस्‍य स्‍वर:), दीर्घ इत्‍युक्‍ते (2 मात्राकालस्‍य स्‍वर:), प्‍लुत इत्‍युक्‍ते (3 मात्राकालस्‍य स्‍वर:) ।
  8. वर्णानां उपरि योजित: बिन्‍दु: अनुस्‍वार: इति कथ्‍यते । यथा 'रामं' शब्‍दे मकारस्‍य उपरिष्‍ठ: (ं) बिन्‍दु: । 
  9. वर्णानां दक्षिणत: योजितौ द्वौ बिन्‍दू विसर्ग: इति कथ्‍यते ।  यथा 'कृष्‍ण:' शब्‍दे णकारस्‍य दक्षिणत: (:) द्वौ बिन्‍दू । 

 अनुवर्तिष्‍यते.......
इति

टिप्पणियाँ