वीथ्यामेको भवेदड्.क: कश्चिदेकोत्र कल्प्यते ।
आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रित: ।।
सूचयेद्भूरिश्रृंगारं किंचिदन्यान् रसान्प्रति ।
मुखनिर्वहणे सन्धी अर्थप्रकृतयो*खिला: ।।
।।साहित्यदर्पण 6/253, 254।।
वीथी एकस्य अंकस्य एव रूपकं भवति । पुरुषनायक: भवति, आकाशभाषितमाध्यमेन विचित्रोक्ति: प्रयुक्तिश्च भवति । श्रृंगाररसस्य प्रामुख्यं भवति सहैव अन्ये रसा: अपि भवन्ति । अत्र सन्धिषु केवलं मुखसन्धि:, निर्वहणसन्धिश्च भवति किन्तु अर्थप्रकृतय: सर्वा: भवन्ति ।।
इति
0 टिप्पणियाँ