हृक्रोरन्‍यतरस्‍याम् - द्वितीया विभक्ति:


हृक्रोरन्‍यतरस्‍याम्
हृ (ले जाना), कृ (करना) द्वयोरपि अण्‍यन्‍तावस्‍थाया: कर्ता विकल्‍पेन कर्मसंज्ञक: भवति ।

उदाहरणम् -
हारयति कारयति वा भृत्‍यं भृत्‍येन वा कटम् ।
विस्‍तरेण -
हारयति भृत्‍यं कटम्
हारयति भृत्‍येन कटम्
कारयति भृत्‍यं कटम्
कारयति भृत्‍येन कटम्

अत्र विकल्‍पेन कर्मसंज्ञा अपि भवति, करणसंज्ञा अपि भवति, अत: द्वितीया अपि योजितुं शक्‍यं तृतीया चापि ।



इति

टिप्पणियाँ