क्रुधद्रुहेर्ष्‍या..... - चतुर्थी विभक्ति: ।


सूत्रम् - क्रुधद्रुहेर्ष्‍यासूयार्थानां यं प्रति कोप: ।।

क्रुध् (क्रोध करना), द्रुह् (द्रोह करना), ईर्ष्‍य् (ईर्ष्‍या करना), असूय (गुणों में दोष निकालना) धातुषु, एतेषां समानार्थिशब्‍दानां च योगे यस्‍योपरि क्रोधादय: कृयते तस्मिन् सम्‍प्रदानसंज्ञा भवति । तत्र च चतुर्थी विभक्ति: भवेत् ।

हिन्‍दी - क्रुध्, द्रुह्, ईर्ष्‍य् व असूया अर्थ वाली धातुओं धातुओं के योग में जिसपर क्रोध किया जाए उसकी सम्‍प्रदान संज्ञा होती है ।

उदाहरणम् - 
हरये क्रुध्‍यति द्रुह्यति ईर्ष्‍यति असूयति वा ।
हरि पर क्रोध करता है, हरि से द्रोह करता है, हरि से ईर्ष्‍या करता है, हरि से असूया करता है ।

खला: सज्‍जनेभ्‍य: असूयन्ति ।
दुष्‍ट लोग सज्‍जनों से असूया करते हैं ।

इति

टिप्पणियाँ