निमित्तपर्यायप्रयोगे ..... - षष्ठी विभक्तिः ।।



वार्तिकम् – निमित्तपर्यायप्रयोगे सर्वासां प्रियदर्शनम्।। 

निमित्त शब्दस्य पर्याय - (निमित्तं‚ कारणं‚ प्रयोजनं‚ हेतुः आदि) शब्दानां प्रयोगः सन् प्रायेण सर्वाः विभक्तयः भवितुमर्हन्ति ।

यथा – 
किं निमित्तम् वसति ।
केन निमित्तेन वसति ।
कस्मै निमित्ताय वसति । 
किं कारणम् 
को हेतुः 

वार्तिकस्य प्रायः शब्देनाभिप्रायः – असर्वनामशब्दैः सह प्रथमा‚ दि्वतीया च विभक्तिः नैव प्रयुज्यते ।
यथा – 
ज्ञानेन निमित्तेन हरिः सेव्यः । 
ज्ञानाय निमित्ताय हरिः सेव्यः । आदि 

ज्ञान‚ निमित्त शब्दयोः सह तृतीया चतुर्थी वा विभक्तिः योज्यते ।

हिन्दी – 
निमित्त शब्द के पर्यायवाची शब्दों के प्रयोग होने पर प्रायः सभी विभक्तियां प्रयुक्त होती हैं । वार्तिक में प्रायः शब्द से आशय है कि जो शब्द सर्वनाम नहीं हैं उनके साथ प्रथमा या दि्वतीया विभक्ति का प्रयोग नहीं होता । ज्ञान और निमित्त शब्दों के साथ तृतीया तथा चतुर्थी विभक्ति का प्रयोग होता है ।
 

इति

टिप्पणियाँ