सूत्रम् – रुजार्थानां भाववचनानामज्वरेः ।। २⁄३⁄५४ ।।
ʺज्वरिʺ धातुं विहाय अन्यरोगवाचकधातुभ्यः कर्मणि सम्बन्धमात्रस्य विवक्षायां षष्ठी विभक्तिः भवति‚ यदि तेषां कर्ता भाववाचकं स्यात् ।
उदाहरणम् –
चौरस्य रोगस्य रुजा – चोर को रोग की पीड़ा है ।
टिप्पणम् – ʺरोगʺ इति भाववाचकशब्दः अस्ति ʺरूजाʺ इत्यस्य कर्ता चाप्यस्ति अतः षष्ठी अभवत् ।
वार्तिकम् – अज्वरिसन्ताप्योरिति वाच्यम्
ʺज्वरिʺ‚ ʺसन्तापिʺ च द्वौSपि धातू विहाय इत्याशयः भवेत् उक्त सूत्रस्य ।
उदाहरणम् –
रोगस्य चौरज्वरः चौरसन्तापो वा – रोग से चोर को ज्वर है या चोर को संताप है ।
टिप्पणम् – अत्र उपर्युक्तेन सूत्रेण षष्ठी नैवाभवत् अपितु षष्ठी शेषे सूत्रेण अभवत् यतोSहि ʺज्वरʺ‚ ʺसन्तापʺ च धातू स्तः ।
हिन्दी –
सूत्र – ज्वरि धातु को छोड़कर अन्य रोगवाचक धातुओं के कर्म में सम्बन्धमात्र की विवक्षा होने पर षष्ठी होती है‚ यदि उनका कर्ता भाववाचक हो ।
वार्तिक – सूत्र में ज्वरि और सन्तापि धातु को छोड़कर आशय समझना चाहिये ।
इति
टिप्पणियाँ
एक टिप्पणी भेजें