वार्तिकम् - क्तस्येन् विषयस्यकर्मण्युपसंख्यानम् ।।
क्त-प्रत्ययान्त शब्दै: सह इन्-प्रत्ययानां संयोगेन निर्मितानां शब्दानां कर्मणि सप्तमी विभक्ति: भवति ।
उदाहरणम् -
अधीती व्याकरणे - जिसने व्याकरण पढ लिया हो ।
अधीती क्त प्रत्ययेन सह इन् प्रत्ययान्त: शब्द: अस्ति अत: अत्र सप्तमी योजिता ।
हिन्दी -
क्त प्रत्ययान्त शब्दों से इन् प्रत्ययों के योग से बने हुए शब्दों के कर्म में सप्तमी विभक्ति होती है ।
वार्तिकम् - साध्वसाधुप्रयोगे च ।।
साधु असाधु च शब्दाभ्यां सह सप्तमी विभक्ति: प्रयुज्यते ।
उदाहरणम् -
साधु: कृष्णो मातरि - कृष्ण माता के लिये भला है ।
असाधु: कृष्णो मातुले - कृष्ण मामा के लिये बुरा है ।
साधु शब्दकारणात् मातरि इत्यस्मिन् सप्तमी अभवत् तथा असाधुप्रयोगे मातुले सप्तमी जाता ।।
हिन्दी -
साधु और असाधु शब्दों के साथ सप्तमी विभक्ति का प्रयोग होता है ।
इति
1 टिप्पणियाँ
आचार्य शब्द रुप
जवाब देंहटाएं