व्‍यंजनसन्धि: ।।



द्वयो: शब्‍दयो: मध्‍ये यदा द्वयो: व्‍यंजनयो: माध्‍यमेन सन्धि: भवति, शब्‍दपरिवर्तनं च भवति तत्र व्‍यंजनसन्धि: भवति ।

यथा - 
त् + रितम् = सच्‍चरितम्

अत्र सत् इति शब्‍दस्‍य अन्तिमवर्ण: व्‍यंजनमस्ति, चरित इति शब्‍दस्‍य प्रथमवर्ण: अपि व्‍यंजनमेवास्ति । तयो: मध्‍ये सन्धि: संजाता । 'त्', 'च' उभौ मिलित्‍वा 'च्' अभवताम् । नूतने शब्‍दे एकं 'च्' कारं इतोपि वर्धितम् । सत् इत्‍यस्‍य 'त्' कार: समाप्‍त: तस्‍यास्‍थाने 'च्' कार: प्राप्‍त: । इयमेवास्ति व्‍यंजनसन्धि: । एवंविधैव यत्र व्‍यंजनवर्णयो: माध्‍यमेन परिवर्तनं भवति तत्र व्‍यंजनसन्धि: भवति ।

व्‍यंजनसन्‍धे: भेदा: - 

व्‍यंजनसन्‍धे: अनेकश: भेदा: सन्ति, किन्‍तु या: प्रामुख्‍यं भजते ता: तु प्राय: पंच-सप्‍त एव सन्ति । अत्र काशांचनानां नामानि दीयन्‍ते ।
  1. श्‍चुत्‍वसन्धि: । 
  2. ष्‍टुत्‍वसन्धि: 
  3. जश्‍त्‍वसन्धि: 
  4. चर्त्‍वसन्धि: 
  5. अनुस्‍वारसन्धि: आदि 

एतासां विवरणम् अग्रे पठिष्‍याम: । एतातिरिक्‍तम् अन्‍यसन्‍धय: अपि सन्ति किन्‍तु तासां नामानि साक्षात् न सन्ति अपितु ता: सूत्ररूपेण संकलिता: सन्ति ।  ता: अपि अग्रे पश्‍याम: किन्‍तु पूर्वं प्रमुखसन्‍धय: ।

इति

टिप्पणियाँ