धर्मनिरपेक्षतावादस्य तात्पर्यम-


धर्मनिरपेक्षता वर्तमानयुगस्य लोकप्रियविचारधारा वर्तते, यो बहु अर्थको$पि अस्ति। धर्म निरपेक्षता आँग्लभाषाया "सेकुलरिज्म"शब्दस्य हिन्दी वर्तते, यो लैटिनभाषायाः सेकुलर शब्दात निष्पन्नो वर्तते। "ए न्यू इंगिलिश" शब्दकोशानुसारं धर्म निरपेक्षतायाः अर्थः धर्मेण सम्बन्धनासः। एवं प्रकारेण धर्मनिरपेक्षतायाः आशयः अयमेव वर्तते यत राज्यधर्मयोः च पूर्णपृथकता स्यात। अस्यानुसारं राज्यस्य कश्चिदपि राजधर्मो न भवति। एषा सर्वधर्मान प्रति तटस्थतायाः भावो$पि स्थापयति। एवं प्रकारेण धर्मनिरपेक्षता राज्यधर्मयोश्च घनिष्ठसंबन्धे बलं नैव ददाति। भारतीयराजनीतिकसामाजिकव्यवस्थायां धर्मनिरपेक्षतायाः चिह्नम प्राक्कालादेव दृश्यन्ते।प्राक्कालादेव उदारता, वसुधैवकुटुम्बकं, सर्वे भवन्तु सुखिनः इत्यादिनामस्तित्वमस्ति। भारतीय धर्मदर्शने$पि वैचारिकस्वतंत्रता,धार्मिकसहिष्णुता, सर्वधर्मसमभाव-पंथनिरपेक्षता वा विविध-धर्माणां सह-अस्तित्त्वे विश्वासस्य दर्शनं भवत्येव, यस्य भारतीयराजनीतौ स्पष्टप्रभावो दृश्यते। भारतीय राजनीतिकव्यवस्थायां लोककल्याणकारिराज्यस्य स्थापनायै सम्विधाने ते सर्वे नियमाः सुनिश्चिता:, यै: धर्म-जाति-लिंगादिनामाधारे नागरिकाणां मध्ये भविष्ये जायमानान सर्वविधभेदान दूरिकरणे समर्था: भवेयु:। भारतीय सम्विधाने ताः सर्वा: व्यवस्था: प्रकल्पिताः, या: राज्यं धर्मात दूरं स्थापयति।
कतिपयानुच्छेदा: यथा- 30, 30(2), 15, 16(2), 16, एवं 29(2) अथवा 325 इत्यादयः यानुच्छेदा: धर्मनिरपेक्षतामेव स्थापयंति। परिणामतः भारते सामाजिक-आर्थिक-राजनैतिकं वा नीतिनां निर्माणं क्रियान्वयनं च कस्यचित संप्रदायस्य धर्मस्य श्रुतीनां आधारे नैव भवति। भारतीय राजनीतिकव्यवस्थायां धर्मान प्रति उपेक्षां विहाय सह-अस्तित्त्व-धार्मिकसहिष्णुता-सर्वधर्मसमभावेषु च विश्वासो वर्त्तते। भारतं बहुधार। भारतदेशो भहुधर्मिको वर्त्तते। एतादृशी समये धर्मनिरपेक्षता नितान्तमापेक्षते। इति सम।। जय माँ भारती।
Pramod kumar shukla

टिप्पणियाँ