ग्रन्थनाम - वेणीसंहार
विधा - नाटकम्
उपजीव्यम् - महाभारतम्
रचनाकार: - भट्टनारायण:
नायक: - मध्यमपाण्डव: भीम:
प्रतिनायक: - ज्येष्ठकौरव: दुर्योधन:
नायिका - याज्ञसेनी द्रौपदी
प्रधानरस: - वीररस:
प्रमुखगुण: - ओजगुण:
रीति: - गौडी रीति:
वृत्ति: - आरभटी वृत्ति:
प्रथमांकसारसंक्षेप: - भगवत: कृष्णस्य कौरवसभायां सन्धिप्रस्तावप्रस्तोतुं प्रस्थानम् । भीमस्य पंचग्रामाणां सन्धिप्रस्तावविषये रोष: । भीमस्य शस्त्रागारं प्रति प्रस्थानम् । तत्र द्रौपद्या सह विविधवार्तालाप: । कंचुकीद्वारा दुर्योधनस्य संन्धिप्रस्ताव-अस्वीकरणम् कृष्णाय च बन्धनप्रयत्नम् इति सूचना-प्रदानम् । भीमस्य सहदेवेन सह युद्धभूमिप्रस्थानम् ।
द्वितीयांकसारसंक्षेप: - भीष्म-अभिमन्यु-आदि प्रमुख-वीराणां वीरगति: । दुर्योधनस्य पत्न्यु: भानुमत्या: सूर्यनारायणस्य व्रतम् । दुर्योधनेन व्रतभंगम् । अर्जुनस्य जयद्रथवधाय प्रतिज्ञा । जयद्रथपत्नीदु:शलाया: विलाप: । दुर्योधनस्य आश्वासनं युद्धभूमौ प्रस्थानं च ।
तृतीयांकसारसंक्षेप: - द्रोणाचार्यस्य वीरगति: । अश्वत्थामाविलाप: । कृपाचार्येण समाश्वसनम् । कर्णस्य द्रोणाचार्यं प्रति अपभाषणं, दुर्योधनस्य समर्थनं च । कृपाचार्येण सेनापतिरूपेण अश्वत्थामा-चयन-प्रस्ताव: । दुर्योधनस्य अस्वीकरणं पुनश्च कर्णाय सेनापतित्वप्रदानम् । अश्वत्थामह: प्रतिज्ञा यावत् कर्ण: न मरिष्यति शस्त्रादिकं न गृह्णामीति । दुर्योधनस्य विपत्तौ प्रतिज्ञां विस्मृत्य अश्वत्थामह: शस्त्रग्रहणप्रयत्न: । आकाशवाण्या प्रतिशेध: । अश्वत्थामह: पश्चाताप: ।
चतुर्थांकसारसंक्षेप: - युद्धभूमौ मूर्छितदुर्योधनं स्यन्दने आरोह्य सूतेन युद्धभूमात् पलायनम् । दुर्योधनस्य 99 अनुजानां वीरगति: । कर्णपुत्र-वृषसेनस्य वीरगति: । धृतराष्ट्र-गान्धारी-संजय-प्रवेश: । दुर्योधनस्य विलपनम् यत् ज्येष्ठानां पुरत: कथं गच्छानि इति । अनन्तरं सूतेन सह प्रस्थानम् ।
पंचमांकसारसंक्षेप: - धृतराष्ट्र-गान्धार्यो: दुर्योधनस्य समीपं गत्वा तस्यालिंगनम् । दुर्योधनविलाप: । कर्णवधसूचना । दुर्योधनस्य एकाकी रणस्थले प्रस्थानम् । भीमार्जुनौ दुर्योधनं अन्वेष्यन्तौ तत्र गच्छत: । दुर्योधनस्य गदायुद्धाय भीमाय पन्थाह्वानम् । अर्जुनस्य अपवारणम् । अश्वत्थामाप्रवेश: । दुर्योधनेन निन्दित: अश्वत्थामाप्रस्थानम् । धृतराष्ट्र-गान्धारी-सहितम् दुर्योधनस्य शल्यशिविराय प्रस्थानम् ।
षष्ठांकसारसंक्षेप: - गुप्तचरै: दुर्योधनस्यान्वेषणम् । भीमेन सह गदायुद्धम् । चार्वाकराक्षसस्य कपटमुनिवेश: युधिष्ठिराय च भीमवधस्य मिथ्यासूचना । युधिष्ठिरस्य द्रौपद्या सह अग्निसमाधि-सज्जा । कोलाहलेन सह विजयीभीमसेनस्य प्रवेश: । युधिष्ठिरेण भीमस्य प्रगाढालिंगनम् । कृष्णार्जुनयो: प्रवेेश: । व्यास-वाल्मीकि-आदि मुनीभि: युधिष्ठिरस्य राज्याभिषेक: । सर्वेषां श्रीकृष्णं प्रति कृतज्ञता-ज्ञापनम् । भरतवाक्यम् ।
इति
0 टिप्पणियाँ