काव्यं यशसे.... (वृत्तिमात्रम्)

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ।।
                                        काव्यप्रकाश 0१⁄०२ ।।

 
वृत्ति : कालिदासादीनामिव यशः‚ श्रीहर्षादेर्धावकादीनामिव धनम्‚ राजादिगतोचिताचारपरिज्ञानम्‚ आदित्यादेर्मयूरादीनामिवानर्थनिवारणम्‚ सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतम्‚ विगलितवेद्यान्तरमानन्दम्‚ प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः‚ सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दर्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत्काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ।

इति

टिप्पणियाँ