संस्‍कृतप्रशिक्षणकक्ष्‍या -अष्‍टम: अभ्‍यास:





हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

 अष्‍टम: अभ्‍यास: प्रकाश्‍यते ।



प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।


पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।


एष: कृष्‍ण:
एतत् धनम्
कृष्‍ण: आनन्‍दाय धनं ददाति ।

एषा बालिका
एषा पुस्तिका
बालिका बालकाय पुस्तिकां ददाति ।

एष: शिक्षक:
एतत् फलम्
शिक्षक: बालकाय फलं ददाति ।

अग्रे चलाम:


एष: आपणिक: - यह दूकानदार है ।
एतानि वस्‍तूनि - ये वस्‍तुएँ हैं ।
राम: आपणिकात् वस्‍तूनि स्‍वीकरोति - राम दूकानदार से वस्‍तुएँ लेता है ।

स: मर्कट: - वह बंदर है ।
स: वृक्ष: - वह पेड है ।
मर्कट: वृक्षात् अवतरति - बंदर पेड से उतरता है ।

एते शिष्‍या: - ये शिष्‍य हैं
एष: आचार्य: - ये आचार्य है
शिष्‍या: आचार्यात् ज्ञानं स्वीकरोति - शिष्‍य आचार्य से ज्ञान लेता है ।

आपणिकात् - दूकानदार से, वृक्षात् - वृक्ष से, आचार्यात् - आचार्य से ।


 इत्‍येतावत् अलम्

गृहकार्यं

1- राम श्‍याम से पुस्‍तक लेता है।
2- आनन्‍द मनोज से धन लेता है ।
3- वृक्ष से फल गिरता है ।
4- रवि यान से गिरता है ।


शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:

टिप्पणियाँ

  1. हा हा हा
    आ रही है, शनैः-शनैः भाषा हमको आ रही है.
    धन्यवाद गुरूजी. ;P

    जवाब देंहटाएं
  2. पाठ लिया ,गृह कार्य नोट किया -आभार गुरुवार !

    जवाब देंहटाएं
  3. बस यूँ ही प्रयास करते रहिये ।

    अपने आप ही भाषा आ जाएगी ।

    जवाब देंहटाएं

एक टिप्पणी भेजें