प्रत्येकः ग्रहः कस्यापि न कस्यापि राशेः स्वामी भवति ।
तत् कथं इति वयं ज्ञातुं प्रयासं करिष्यामः ,पूर्व-पाठे वयं ज्ञातवन्तः ग्रहाणां नामानि ।
तत् पुनः एकबारं स्पष्टयामि -
ग्रहाः नव -
सूर्यः,चन्द्रः,मङ्गलःबुधः,गुरुः,शुक्रः,शनिः,राहुः,केतुः
एते ग्रहाः द्वादश-राशीनां स्वामिनः सन्ति
श्लोकः -
मेष-वृश्चिकयोः भौमः ,शुक्रो वृष-तुलाधिपः।
सिंहस्य अधिपतिः सूर्यः,बुधो मिथुन-कन्ययोः ।।
कर्कस्य अधिपतिः चन्द्रः, शनिः मकर-कुम्भयोः।
स्वामिनः एते ज्ञेयाः,धनुः-मीन-अधिपतिः गुरुः ।।
अर्थात्- ग्रहः- राशिः
सूर्यः सिंहः
चन्द्रः कर्कः
भौमः मेषः - वृश्चिकः
बुधः मिथुन-कन्या
गुरुः धनुः -मीनः
शुक्रः वृष-तुला
शनिः मकरः-कुम्भः
एतत् ज्ञानं परमं आवश्यकं अस्ति,अतः ज्योतिष-ज्ञानाय अवश्यं ध्येयम्।
धन्यवादः
अनेनानुसारेण मम राशे: स्वामि बुध: अस्ति ।
जवाब देंहटाएंग्रहाणां सम्बन्धा: प्रकाशयितुं धन्यवादा: