विश्‍वस्‍य प्राचीनतमं प्रमुखतमं च अन्‍वेषणम् - वेदेषु विज्ञानम् ।।



हिन्‍दीभाषायां पठितुमत्र आघात: करणीय:


संकेतम् - ॐ अग्निमीळे पुरोहितं यज्ञस्‍य देवमृत्विजम् । होतारं रत्‍नधातमम् ।। (ऋग्‍वेद- 1/1/1 )


वयं तत्‍य अग्‍ने: स्‍तुतिं कुर्म: य: देव: पुरोहित (यज्ञकर्तु: कृते) , देवता (अनुदानकर्तु: कृते), ऋत्विज (यज्ञसम्‍पादनकर्तु: कृते) , होता ( आवाहनकर्तु: कृते) अथ च याजकेभ्‍य: धनरत्‍नादिकं ददाति ।।


विशेष: - ऋग्‍वेदस्‍य प्रथमं सूक्‍तं अग्निदेवस्‍य कृते स‍मर्पितम् अस्ति , अनेनेव ज्ञायते यत् वैदिक काले एव अग्नि देवस्‍य माहात्‍म्‍यं ज्ञातम् आसीत् । अग्नि: विश्‍वस्‍य सर्वप्रथम: आविष्‍कार: आसीत् । अस्‍य प्रथमप्रयोग: भारतदेशे एव अभवत् । अस्‍य उत्‍पत्ति: कथं जातम् इत्‍यपि विषये वेदे दत्‍तमस्ति यस्‍य वर्णनं क्रमश: भविष्‍यति । 

टिप्पणियाँ

एक टिप्पणी भेजें