अद्य य: विषय: प्रकाश्यते स: अस्ति वर्षाकारणम् । सम्प्रति वेदे वर्षाया: किं किं कारणं उच्यते अस्मिन् विषये चर्चां कुर्म: ।
मन्त्र - आदह स्वधामनु पुनर्गर्भत्वमेरिरे । दधाना नाम यज्ञियम् ।। ऋग्वेद 1/6/4
अर्थ - यज्ञीयनाम धर: , धारयितुं समर्था: मरुत्देवा: वस्तुत: अन्नं कामयन् बारं-बारं मेघं गर्भरूपेण धारयन्ति ।
अर्थात् अन्नं उत्पादयितुम् एव वायु: बारं-बारं मेघस्य रूपं धारयति । मेघं भूत्वा यदा स: वर्षति तदा एव धान्यं उत्पादितं भवति ।।
मन्त्र - अपां नपातमवसे सवितारमुप स्तुहि । तस्य व्रतान्युश्मसि । । ऋग्वेद 1/22/6
अर्थ - भो ऋत्विज । भवान् अस्मान् रक्षयितुं सवितादेवस्य स्तुतिं करोतु । वयं तस्य कृते सोमयागादिकं कर्मं सम्पादयितुं इच्छाम: । स: सवितादेव: जलशोषणं कृत्वा पुन: सहस्रगुणितं वर्षां कारयति ।
अस्मिन् मन्त्रे सविता (सूर्य) देव: जलं उषित्वा पुन: सहस्रगुणितं वर्षयति इति उक्तमस्ति । अस्मिन् तु मम कापि विचारोक्ति: नैव भवेत् ।
एवं विधा यत् वैज्ञानिका: अद्य वदन्ति तत् वेदभगवत: लक्षाधिकवर्षपूर्वमेव प्रमाणितवानासीत् ।
जयतु वेद भगवान
क्रमश:......................
भवदीय: - आनन्द:
0 टिप्पणियाँ