निरर्थकं सुखम्


रामकृष्णपरमहंसः महान् योगी। भवतः पत्नी शारदादेवी अपि योगिनी। अनुयायीनाम् शङकानिवारणं कर्तुं बहुवारं कथां श्रावयति स्म। तासु एका।
एकदा सीता रामम् प्रति अवदत् " अस्माकं राज्ये कोsपि दुःखं न अनुभवेत्। यः यत् किमपि वा़ञ्छेत् तत् सः राज्ञः प्राप्नुयात्। इति व्यवस्थां करोतु।"
रामेण व्यवस्था कृता।
एकदा रामः सीता च यत्र उपविशतः स्म तस्य वितानभङगः जातः। दोषनिष्कृतिं कर्तुं रामेण कर्मकराः आहुताः।
किन्तु ते न आगताः। सन्देशः प्राप्तः यत् ग्रामे साम्प्रत् तक्षकाः प्रलेपकाः कर्मकराः च कार्योत्सुकाः न। आवश्यकता एव न आसीत्। राज्ञः पर्याप्तं धनं प्राप्नुवन्ति ते।
तदा रामः सीताम् अवदत् "पश्यतु! अयत्नतः सुखं प्राप्नोति चेत् कोsपि आवश्यकं कार्यम् अपि न करोति। पूर्णतः अलसः भवति। दुर्गुणम् अङगीकरोति। अयत्नतः प्राप्तं सुखं निरर्थकम् एव।"

टिप्पणियाँ

एक टिप्पणी भेजें