चलयन्‍त्रस्‍य ग्रथनानि संरक्षयतु (Backup and protect your mobile contacts and content)


    

     अस्‍मासु बहव: जना: स्‍व चलभाषयन्‍त्रस्‍य ग्रथनानि (files) पुनश्‍च तत्‍वानां-विलोपनेन (data loss) श्रान्‍त:  भवन्ति  ।  प्रायश: अस्‍माकं चलयन्‍त्रस्‍य ग्रथनानि लुप्‍तानि भवन्ति किन्‍तु वयं किमपि कर्तुं न शक्‍नुम:  ।  अस्मिन् अपि यदि अस्‍माकं भाषसंकेतानि (contacts) लुप्‍तानि भ‍वन्ति चेत् समस्‍या अधिका भवति  ।  कदाचित् वयं नूतनं चलयन्‍त्रम् अपि स्‍वीकृतवन्‍त: चेदपि एषा समस्‍या प्रायश: आग‍च्‍छति एव  ।  वयं नूतनप्रक्रियया संकेतानि, ग्रथनानि च रक्षयाम:  ।  

        अस्‍या: समस्‍याया: निदानं कर्तुं वहूनि जालदृष्‍यानि (websites) सुविधा: दत्‍तवन्‍त: सन्ति तथ्‍यं प्रत्‍यक्षं (online) रक्षयितुम्  ।  तेषु एतत् जालदृष्‍यम् अन्‍यतमम् अस्ति यत् अहं भवतां समक्षे प्रस्‍तोमि  ।  अस्‍य जालदृष्‍यस्‍य एका इतोपि विशेषता अस्ति यत् एतत् जालदृष्‍यं स्‍वस्‍य मृदुवसनम् (software) अपि प्रददाति  ।  एतस्‍य मृदुवसनस्‍य उपयोग: बहु सरलम् अस्ति  ।  अनेन मृदुवसनेन एव भवन्‍त: तथ्‍यानां प्रत्‍यक्षरक्षणं  कर्तुं शक्नुवन्ति  ।  सोपानं सरलम् एव अस्ति अस्‍य रक्षणस्‍य  ।  पूर्वं मृदुवसनं तलपूरयतु  ।  पुन: मृदुवसनम् उद्घाट्य विकल्‍प: चिनोतु  ।  तत्र ग्रथनानि पुनश्‍च तथ्‍यानि संरक्षयतु इति विकल्‍पं चित्‍वा ग्रथनानि, भाषसंकेतानि,  तथ्‍यानि च रक्षयतु  ।
         एतत् मृदुवसनं सर्वेषु चलयन्‍त्रेषु कार्यं करोति  ।  एतत् तलपूरयितुं निच्‍चै: श्रृखलां नोदयतु  ।


प्‍लीक्‍स मृदुवसनम्
(pleex software)
                           तलपूरयतु
                           (download)  
  प्रत्‍यक्षसंरक्षणस्‍य लाभ: स्‍वीकरोतु  ।  सम्‍प्रति तथ्‍यविलोपनं कदापि नैव  ।

टिप्पणियाँ