भगवत: श्रीरामस्‍य जन्‍मोत्‍सवे हार्दिकी शुभकामना: ।।



 अद्य रामनवमी  ।  भगवत: श्रीरामचन्‍द्रस्‍य जन्‍मदिवस:  ।  रामस्‍य जन्‍म अयोध्‍यानगर्याम् अभवत् इति वयं सर्वे जानिम: एव  ।
   अयोध्‍यायां अद्य महत् हर्षोल्‍लास: अस्ति  ।  तत्र भगवत: श्रीरामस्‍य जन्‍मदिवसस्‍य महोत्‍सव: अतिआनन्‍देन उत्‍साहेन च कुर्वन्ति  ।  मध्‍याह्नकाले यदा 12 वादनं जातं , साक्षात् श्रीकनकभवनस्‍य द्वारं उद्घटितम्  ।  सर्वे मिलित्‍वा भगवत: श्रीरामस्‍य जयनादं कृतवन्‍त:  ।  सम्पूर्णा पुरी उल्‍लासेन पूरिता अभवत्  ।  नार्य: मंगलगानं कृतवत्‍य:,  नरा: प्रदक्षिणां कुर्वन् व्रतादिकं धृतवन्‍त:  ।   


अद्य आनन्‍दस्‍य दिवस:  ।  भवन्‍त: अपि भगवत: जन्‍मस्‍य आनन्‍दं स्‍वीकुर्वन्‍तु  ।  रामजन्‍मनवम्या:  हार्दिकी शुभकामना:  ।।।

टिप्पणियाँ