उत्‍तम: चलयन्‍त्र-जालचालक: सर्वेषां चलयन्‍त्राणां कृते - best mobile browser for all mobiles..


           प्रायश: सर्वे चलभाषधारका: स्‍वचलयन्‍त्रे अंतरजालं चालयन्ति एव  ।  अस्‍य कृते प्रायश: ओपरा मिनी जालचालक:(OPERA MINI BROWSER), बोल्‍ट चालक: (BOLT BROWSER) अथवा चलयन्‍त्रस्‍य मूलचालक: (DEFAULT BROWSER)  प्रयोज्‍यन्‍ते  ।  एतेषु चालकेषु ओपरामिनी तु उत्‍तम: चालक: किन्‍तु अस्मिन् चालके तलपूर्ति (DOWNLOADING) अतिमन्‍दगत्‍या भवति  ।  यदि वयं 1 एम.बी. आकारस्‍य ग्रथनं (FILE) तलपूरयाम: चेत् 5-10 कला: (MINUTES) लगन्ति  ।  
        एवं विधा एव बोल्‍ट चालक: अपि अस्ति, किन्‍तु अस्‍य गति: अति न्‍यूना अस्ति  ।  इदानीं पर्यन्‍तं चलयन्‍त्राय एक: अपि विशिष्‍टचालक: तादृश: नासीत् यस्‍य प्रयोग: सौकर्यकर: स्‍यात्  ।  वातायनचलयन्‍त्रस्‍य (WINDOW MOBILE) कृते अथवा महर्गयन्‍त्राणां (COSTLY MOBILES) कृते तु बहव: चालका: सन्ति किन्तु सिम्बियन (SYMBIAN) अथवा जावा (JAVA) चलयन्‍त्राय प्रायश: मूलचालक: अथवा ओपरामिनी एव विकल्‍परूपेण अस्ति  । अतएव जना: चलयन्‍त्रे अन्‍तरजालं उद्घाटयितुं सौकर्यं नैव अनुभवन्ति  ।  
         किन्‍तु इदानीं अस्‍या: समस्‍याया: अपि समाधानं आगतमस्ति  ।  एक: नूतन: जालचालक: सम्‍प्रति उपलब्‍धम् अस्ति  ।  अस्‍य नाम यूसी जालचालक: अस्ति (U.C. WEB BROWSER) ।  एतस्‍य वैशिष्‍ट्यम् अस्ति यत् एष: चालक: त्‍वरितगत्‍या जालपृष्‍ठा: उद्घाटयति  ।  अस्‍य तलपूर्ति: अपि अधिकगतिवती अस्ति  ।  एका सुविधा इ‍तोपि अस्ति यत् अत्र बाधिततलपूर्ति: (INTERRUPTED DOWNLOADING)  अपि तत: एव पूरणं भवति  ।  इत्‍युक्‍ते त्‍वरित-अनुपूर्ति:  ।  
         एष: चालक: सर्वेषु चलयन्‍त्रेषु कार्यं करोति  ।  अस्‍तु तर्हि तलपूरयतु , स्‍थापयतु अथ च स्‍वयमेव पश्‍यतु  ।  आनन्‍दं स्‍वीकरोतु  । 


यू.सी.चलयन्‍त्र-जालचालक: 
U.C. MOBILE WEB BROWSER
                                   नि:शुल्‍केन तलपूरयतु 
                                         FREE DOWNLOAD



टिप्पणियाँ