निम्‍बूज वार्ता मृदुवसनस्‍य नूतनं संस्‍करणम् - new version of nimbuzz chat


     अस्‍मत्‍सु बहव: जना: कदाचित् निम्‍बूज वार्ता मृदुवसनस्‍य विषये जानन्ति एव,  बहव: प्रयोगम् अपि कुर्वन्ति  । किन्‍तु ये न जानन्ति तेषां कृते काश्‍चन् सूचना: सन्ति  ।  पूर्वं तु एतत् वदामि यत् निम्‍बूज अस्ति किम्  ।  
       निम्बूज एकं मृदुवसनम् अस्ति येन माध्‍यमेन वयं स्वमित्रै: सह लिखितवार्ता कर्तुं शक्‍नुम:, चलचित्रवार्ता अपि कर्तुं शक्‍नुम: , ध्‍वनिवार्ता अपि कर्तुं शक्‍नुम: पुनश्‍च चलभाष अपि कर्तुं शक्‍नुम:  ।  बहुनि मृदुवसनानि सन्ति एवं विधा  यथा गूगल टाक, याहू टाक, लाइव मैसेन्‍जर, स्काईप आदय:  ।  किन्‍तु एतेषु प्रायश: एकां खाताम् एव उद्घाटयन्ति उत द्वयं , किन्‍तु निम्‍बूज एकस्मिन् मृदुवसने एव बहव्‍य: खाता: धारयति  ।  
       अस्मिन् भवन्‍त: स्‍वगूगलखाता, याहू, एमएसएन आदय: अपि सहैव उद्घाटयितुं शक्‍नुवन्ति  ।  अस्‍य प्रयोग: चलयन्‍त्रे अपि कर्तुं शक्‍नुवन्ति  ।  अस्‍य संगणकसंस्‍करणं पुनश्‍च चलभाष संस्‍करणं द्वयमपि उपलभ्‍यते । सम्‍प्रति अस्‍य नूतनं संस्‍करणं उपलभ्‍यते  ।  एतस्‍य नूतनं संस्‍करणं भवन्‍त: अस्‍य आधिकारिकजालपृष्‍ठे गत्‍वा तलपूरयितुं शक्‍नुवन्ति  ।  
       अत्रापि अस्‍य तरपूर्तिश्रृंखला दीयते  ।  अत्रापि भवन्‍त: एतत् मृदुवसनं तलपूरयितुं शक्‍नुवन्ति  । 

निम्‍बूज चलभाषसंस्‍करण-वार्ता मृदुवसनम्
                              तलपूरयतु

निम्‍बूज संगणकसंस्‍करण-वार्ता मृदुवसनम् 
                              तलपूरयतु



टिप्पणियाँ