संस्‍कृतम् अवगन्‍तुं कश्चित् विशिष्‍टावसर:- learn speaking sanskrit fluently, only in 10 days



  

भ्रातर: बहव: अस्‍मत्‍सु सन्ति ये संस्‍कृते आस्‍था तु धारयन्ति किन्‍तु ते संस्‍कृतं वक्‍तुं किंचिदपि  न जानन्ति    एते जना: प्रायश: पृच्‍छन्ति अपि संस्‍कृतस्‍य संभाषणं कुत: प्राप्‍नुम:    प्रायश: अहम् अपि न वक्‍तुं शक्‍नोमि यतोहि आवर्षं तु संस्‍कृतस्‍य कार्यक्रमा: चलन्ति किन्‍तु विभिन्‍नक्षेत्रेषु विभिन्‍ननि आयेाजनानि भवन्ति एतदर्थं सम्‍भाषणशिविरं कुत्र चलति इति ज्ञातुं सौकर्यं नैव भवति 
          किन्‍तु उपस्थित: अस्ति कश्चित् विशिष्‍ट: अवसर: भवतां सर्वेषां संस्‍कृतानुरागिणां कृते    उत्‍तरप्रदेशस्‍य संस्‍कृतभारत्‍या: मुख्‍यकार्यालयेन एक: विशिष्‍ट: सम्‍भाषणकार्यक्रम: उपस्‍थापित: अस्ति    इत्‍युक्‍ते अस्‍य आयोजनं साक्षात् अग्रिम मासे भवितुं गच्‍छति    जूनमासस्‍य 5 दिनांकत: 15 दिनांकपर्यन्‍तं अस्‍य शिविरस्‍य आयोजनं भविष्‍यति    अस्मिन् शिविरे भवन्‍त: दश दिवसेषु एव प्रवाहपूर्णं संस्‍कृतं वक्‍तुं अवगच्‍छन्ति   
          अतत् शिविरं वर्षे मात्र एकवारम् एव आयोज्‍यते    अस्मिन् वर्षे अस्‍य आयेाजनं लखीमपुरखीरी जनपदे क्रियते    अस्‍य शिविरस्‍य शुल्‍कं केवलं 600 अस्ति   अस्मिन् भवताम् आवास व्‍यवस्‍था (दशदिवसस्‍य) , भोजनव्‍यवस्‍था तथा च एकवर्षस्‍य कृते संभाषणसन्‍देष इति पत्रिका नि:शुल्‍कं दीयते 
          अधिकं ज्ञातुं अस्‍य शिविरस्‍य व्‍यवस्‍थाप्रमुख: श्रीमान् श्रवणानन्‍दमहोदय: पृष्‍टव्‍य:    तस्‍य चलभाषसंख्‍या 8004532184 अस्ति    सन्‍दर्भरूपेण यदि इच्‍छति चेत् मम नाम ’विवेकानन्‍द:’ उत ‘ आनन्‍द पाण्‍डेय:’ इति वक्‍तव्‍य:    संदर्भं न ददाति चेदपि सूचना: प्राप्‍स्‍यते एव    शीघ्रं कुर्वन्‍तु ,  एष: अवसर: पुन: कदाचित् निकटभविष्‍ये मिलेत् न वा 

टिप्पणियाँ