केचन् मूल्‍यरहितप्रत्‍यक्ष-ग्रथनसंरक्षक: (Some Free Best Online Storages)

 

अद्य वयं जानिम: कानिचन् जालपृष्‍ठाणां विषये ये प्रत्‍यक्षं ग्रथनसंरक्षणं कुर्वन्ति (Free Online File Storage) ।  परोक्षं संरक्षणं (Online Storing) कर्तुं सम्‍प्रति अस्‍माकं पार्श्‍वे बहुविधिउपकरणानि भवन्ति ।  स्‍मृतिपत्रकं (Memory Card), कटुसंवलकम् (Hard Drive) इत्‍यादि किन्‍तु यदि वयं तथापि स्‍व वस्‍तूनि, ग्रथनानि (Files) अथवा चित्राणि जनानां उत मित्राणां मध्‍ये वंटनं (Sharing) कर्तुम् इच्‍छाम: चेत् अस्‍माभि: निश्‍चयेन प्रत्‍यक्षसंरक्षकस्‍य (Online Storage) आवश्‍यकता भवत्‍येव ।  अत: अद्य वयं चलाम: केषांचित् जालपृष्‍ठानाम् उपरि ये प्रत्‍यक्षग्रथनसंरक्षणं कुर्वन्ति ।

1- सर्वप्रथमं जालपृष्‍ठमस्ति मीडियाफायर (Media Fire) ।  अस्‍य वैशिष्‍ट्यं अस्ति यत् भवान् यावत् इच्‍छति तावत् ग्रथनं संरक्षयितुं शक्‍नोति बिना किमपि शुल्‍कं दत्‍वा एव ।  किन्‍तु तानि ग्रथनानि 100 एम बी त: लघु: एव भवेयु: ।  अस्‍य मूल्‍यं दत्‍वा इतोपि सुविधा: स्‍वीकर्तुं शक्‍नुम: । 

पूर्वं पंजीकरणं कृत्‍वा स्‍वनाम्‍ना एकं संवलकं (Folder) स्‍थापयतु ।  संवलके इतोपि संवलकं निर्मापितुं शक्‍नुम: ।  संवलके नूतनानि ग्रथनानि, चित्राणि, गीतानि, मृदुवसनानि (Softwares) च पूरयन्‍तु ।  सम्‍प्रति ग्रथनानि संरक्ष्‍य अस्‍य श्रृंखला: (Links) प्राप्‍तुं शक्‍नुम: येन ग्रथनानि मित्राणां मध्‍ये वंटितुं शक्‍नुम:  ।

अस्‍य जालपृष्‍ठस्‍योपरि गन्‍तुम् अत्र नोदयतु (Click) ।

मीडियाफायर प्रत्‍यक्षग्रथनसंरक्षक-पृष्‍ठम्

 

2- द्वितीयं जालपृष्‍ठमस्ति ओपनड्राइव डाट काम (Opendrive) इति ।  अस्‍य जालपृष्‍ठस्‍य वैशिष्‍ट्यमस्ति यत् अत्र भवान् 5 जीबी पर्यन्तं ग्रथनानि संरक्षयितुं शक्‍नोति ।  ग्रथनानि संरक्ष्‍य श्रृंखला प्राप्‍य मित्राणां मध्‍ये वंटनं कर्तुं शक्‍नुम:

 

अस्‍य जालपृष्‍ठस्‍योपरि गन्‍तुम् अत्र नोदयन्‍तु

ओपनड्राइव ग्रथनसंरक्षक:

 

3- तृतीयम् अस्ति स्‍काईड्राइव (SkyDrlive) ।  अत्र भवन्‍त: 25 जीबी पर्यन्‍तं ग्रथनं संरक्षयितुं शक्‍नुवन्ति ।  श्रृंखला फेसबुक उपरि अपि वंटयितुं शक्‍नोति ।  मित्राणां मध्‍ये अपि वंटयितुं शक्‍नोति ।

अस्‍य जालपृष्‍ठस्‍योपरि गन्‍तुम् अत्र नोदयन्‍तु

स्‍काईड्राइव ग्रथनसंरक्षक:

 

images

4- चित्रसंरक्षकेषु पिकासा गूगलजालपृष्‍ठस्‍य (Picasa Web Album) सेवा अस्ति यत्र विनामूल्‍येन एव भवन्‍त: स्‍वचित्राणि रक्षयितुं, आवंटयितुं शक्‍नुवन्ति ।

अस्‍य जालपृष्‍ठस्‍योपरि गन्‍तुम् अत्र नोदयन्‍तु

पिकासा चित्रसंरक्षक:

 

header-logo

5- पनोरमियो (Panoromio) गूगलपृष्‍ठस्‍य एव अन्‍यं पृष्‍ठम् अस्ति  ।  एतत् अपि चित्राणि संरक्ष्‍य तेषाम् आवंटनं कर्तुं सहाय्यं प्रददाति ।

अस्‍य जालपृष्‍ठस्‍योपरि गन्‍तुम् अत्र नोदयन्‍तु

पनोरमियो चित्रसंरक्षक:

 

संस्‍कृतजगत्

टिप्पणियाँ