एकम् इतोपि वाणीसंकलकम् -One More Call Recorder…..

 

        अल्‍टीमेट वाणीसंकलकस्‍य अनन्‍तरं भवतां कृते एकम् इतोपि वाणीसंकलकम् आनीतवानस्मि अद्य ।  अस्‍य संकलकस्‍य कानिचन वैशिष्‍ट्यानि सन्ति ।  अस्मिन् बीपध्‍वनिं पिधानं कर्तुं शक्‍यमस्ति ।  आगमनभाषस्‍य संकलनं गमनभाषस्‍य पिधानं कर्तुं शक्‍यमस्ति ।  स्‍वतन्‍त्ररूपेण गमनभाषस्य संकलनम् आगमनभाषस्‍य पिधानमपि कर्तुं शक्‍यमस्ति ।  स्‍वत: संकलनम् अपि कर्तुं शक्‍यमस्ति येन आगमन, गमन भाषयो: अपि संकलनं स्‍वयमेव भविष्‍यति ।  एतस्‍य गुप्‍तसंख्‍या अनेन सह एव योजिता अस्ति अत: अस्‍य कृते धनव्‍ययस्‍य अपि आवश्‍यकता नैव अस्ति ।

एतत् तलपरितुं भवन्‍त अध: दत्‍तस्‍य श्रृंखलाया: उपरि नोदनं कृत्‍वा तलपूरयतु ।

 

वाणीसंकलकम्-One More Call Recorder

टिप्पणियाँ

एक टिप्पणी भेजें