अस्‍माकं दक्षिणभारतस्‍य यात्रा- our south india tour

AMAUSI AIRPORT

अमौसी वायुस्‍थानके किंगफिशर वायुयानम्

जून मासे 2011 तमें ख्रीस्‍ताब्‍दे 19 दिनांकत: अस्‍माकं यात्रा ग़हात् आरम्‍भमभवत् । अकबरपुर (अम्‍बेडकरनगरत: ) 19 दिनांके मम माता, पिता, भगिनी अहं च सर्वे लखनउनगराय प्रस्‍थानं अकुर्वाम । मम अनुज: मंगल: तत्रैवासीत्  ।  वयं रात्रिविश्रामं लखनउनगरे एकस्‍य पितृव्‍यस्‍य गृहे अकुर्वाम  ।  प्रात: काले शीघ्र उत्‍थाय अमौसी वायुस्‍थानके प्राप्‍तवन्‍त: सर्वे 10 जना: वयं ।

we on delhi airport

वायुयानम् उड्डितम् ।  अस्‍माकं प्रथमवायुयान यात्रा आसीत् अत: मनसि महोल्लास: आसीत् ।  लखनउत: सार्ध्‍दैकहोरायाम् एव वयं देहली वायुस्‍थानकं प्राप्‍तवन्‍त: ।  पालमवायुस्‍थानकम् इति ।  तत: टर्मिनल 1डी कृते गतवन्‍त:  ।  अस्‍माकं यानं तत: एव आसीत् किन्‍तु विलम्‍बकारणात् तत् यानं गतम् ।  वयं द्वितीययानाय चिटिका: कारितवन्‍त:  ।  अस्‍य इतोपि 9000 अधिकं मूल्‍यम् आगतम्  ।  अस्‍माकं यानं कोच्चिकृते 21 दिनांके आसीत् अधुना ।

ANAND PANDEY247

इन्दिरागान्धिवायुस्‍थानकम् टर्मिनल 1डी

इन्दिरागान्धिवायुस्‍थानकात् वयं देहलीनगरे एव मधुवन नामके आवासे तस्मिन् दिने विश्रामं कृतवन्‍त: ।  21 दिनांके प्रात: सार्द्ध नववादने वयं वायुस्‍थानकं प्राप्‍तवन्‍त:  ।  वायुस्‍थानके सर्वान् अनौपचारान् समाप्‍य प्रतीक्षालये उपविष्‍टवन्‍त: ।  तत: अस्‍माकं यानं कोच्चिनगराय 12.30 वादने प्रस्थितम् ।

ANAND PANDEY250

वायुयानं उड्डयनपथे प्रवृत्‍तम्

वायुयानम् उड्डितम् ।  आकाशे वयं बहुविधानि दृष्‍यानि दृष्‍टवन्‍त:  ।  अस्‍माकं पार्श्‍वे एव मेघा: आच्‍छादकान् इव आच्‍छादिता: आसन् । 

ANAND PANDEY254

वायुयानं वायुमार्गे आसीत् तदा अहं कानिचन् चित्राणि कर्षितवान् । 

ANAND PANDEY255

अस्मिन् चित्रे अस्‍माकं साक्षात् पार्श्‍वत: एव मेघा: सन्ति ।  एतत् दृष्‍यम् अतीव नयनरंजकम् आसीत्  ।

ANAND PANDEY256

कपासशिखराणि इव मेघखण्‍डानि इतस्‍तत: आच्‍छादितानि आसन् ।

ANAND PANDEY257

कदाचित् कुत्रचित् हिमगिरि इव हिमाच्‍छादिपर्वतानि इव दृष्‍यन्‍ते स्‍म ।

ANAND PANDEY259

आकाशमार्गे 1.5 होरा व्‍यतीत्‍य वयं मुम्‍बई स्‍थानके 50 कला: प्रतीक्षितवन्‍त: ।  तत:  वायुयानं पुन: उड्डितम् अथ च पुन: 1.5 होरा वायुमार्गे व्‍यतीत्‍य वयं कोच्चिस्‍थानकं प्राप्‍तवन्‍त: ।

ANAND PANDEY266

अतिसुन्‍दरी, रमणीया च नगरी इयम् ।  चतुर्दिकं पठारा: वृक्षै: आच्‍छादिता: ।  एवं प्रतीयते स्‍म यत् विश्‍वस्‍य सर्वा: वनस्‍प‍तय: अत्रैव आगता: सन्ति  ।

ANAND PANDEY268

कोच्चिवायुस्‍थानके अवतीर्य वयं बहि: आगतवन्‍त: ।

ANAND PANDEY270

तत् भवनम् अपि अतीव रमणीयम् आसीत् ।

ANAND PANDEY275

मातरौ विहाय वयं टैक्‍सीयानं अन्‍वेषितुं गतवन्‍त: ।

ANAND PANDEY280

कोच्चिवायुस्‍थानकस्‍य पुरत: वयं सर्वे उपविश्‍य बसयानाय अपि प्रतीक्षां कृतवन्‍त: किन्‍तु यानं न आगतम् अत: पुन: टैक्‍सीयानमेव कृत्‍वा वयं कोच्‍चीनगरं प्रति गतवन्‍त:  ।  तत्र एडम इति वासस्‍थाने त्रय: प्रकाष्‍ठ: स्‍वीकृत्‍य सर्वे विश्रामाय गतवन्‍त:  ।  सायंकालं जातमासीत्, बुभुक्षा चापि आसीत् अत:भोजनालये भोजनं कृत्‍वा सर्वे शयनाय अगच्‍छन्  ।  अग्रिमदिवसस्‍य वार्ता अग्रिमलेखे ।  तावत् विश्रान्ति: स्‍वीकुर्वन्‍तु ।

नमस्‍कार:

टिप्पणियाँ