संस्‍कृतजगत: पृष्‍ठदृष्‍यं परिवर्तितम् - Sanskritjagat Profile Templete Changed To New ….

 

SANSKRITJAGAT...संस्‍कृतजगत्-आइये भारत को फिरसे जगद्गुरु बनायें .

 

       प्रिय संस्‍कृतजगत: बान्‍धवा: सुहिन्मित्राणि च  ।  अतिहषै: सह भवन्‍त: सूचनां ददामि यत् सम्‍प्रति संस्‍कृतजगत: पृष्‍ठदृष्‍यं परिवर्तितम् ।  कदाचित् एकवर्षात् संस्‍कृतजगत: पृष्‍ठदृष्‍यं परिवर्तितं नैव आसीत् ।  अत: सम्‍प्रति अधिकारिभि: मिलित्‍वा संस्‍कृतजगत: पृष्‍ठदृष्‍यं परिवर्तितम् । 

SANSKRITJAGAT - Google Chrome_2011-07-24_22-39-49

 

           एतत् पृष्‍ठदृष्‍यं सम्‍पूर्णं दिनं परिश्रमं कृत्‍वा अस्‍माभि: सज्‍जीकृत्‍य सम्‍प्रति संस्‍कृतजग‍त् जालपृष्‍ठे योजितम् अस्ति । सम्‍प्रति भवन्‍त: दृष्‍ट्वा वदन्‍तु यत् कथं प्रतीयते एतत् जालदृष्‍यं ।  यदि किमपि परिवर्तनम् अपेक्षितं स्‍यात् चेत् कृपया टिप्‍पणीमंजूषायां लिखन्‍तु ।  वयं तत् परिवर्तनं कर्तुं विचारयिष्‍याम: ।  यदि आवश्‍यकं लगिष्‍यति चेत् परिवर्तनं साधयिष्‍याम: अपि ।

           अस्‍तु तर्हि संस्‍कृतपृष्‍ठेषु अग्रणी संस्‍कृतजगत् जालदृष्‍यं प्रति भवताम् आगमनं निरन्‍तरं साधयन्‍तु ।  भवताम् आगमनेन संस्‍कृतस्‍य, संस्‍कृतजगत: च उत्‍साहं वर्धते ।  अस्‍माकं कार्यस्‍य साफल्‍यम् अस्मिन् एव दृष्‍यते ।  भवतां स्‍वागतम् अस्ति अस्‍माकं नूतनजालदृष्‍ये ।

नमो नम:

संस्‍कृतजगत्

टिप्पणियाँ