मूर्ख राजा तस्‍यानुचर: वानर: च (कथा)




तस्माच्चिरायुरिच्छत नृपेण मूर्खोऽनुचरो न रक्षणियः ।

कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽ​न्तःपुरेऽप्यप्रतिषिद्ध्प्र​सरोऽतिविश्वासस्थानप्रभूत् ।
एकदा राज्ञो निद्रागतस्य वानरो व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षःस्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तश्रैथपविशति । ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुधेन सता तिक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिका उड्डीय गता । तेन शितधारेणासिना राज्ञो वक्षो द्विधा जातं, राजा मृतश्च ।


एषा लघुकथा श्रीशैलेन्‍द्रवर्येण प्रेषिता । 
तस्‍मै हार्द: धन्‍यवादा: 




टिप्पणियाँ

एक टिप्पणी भेजें