Ticker

6/recent/ticker-posts

भविष्‍यकालस्‍य अनिश्चितवाक्‍यानि - Future Indefinite Tense (Learn Sanskritam)













         
               अनिश्चित-वाक्‍यानि तानि वाक्‍यानि भवन्ति यत्र एतत् न ज्ञायते यत् वाक्‍यस्‍य गति: का अस्ति । यथा - स: गमिष्‍यति । अत्र निश्चितं नास्ति यत् स: कदा गमिष्‍यति अद्य गमिष्‍यति अथवा स्‍व: गमिष्‍यति , प्रात: गमिष्‍यति उत मध्‍याने अथवा सायंकाले गमिष्‍यति । अद्य एतेषाम् एव वाक्‍यानाम् अत्र वयं चतुर्षु सोपानेषु अध्‍ययनं कुर्म: । एतानि सोपानानि सन्ति साधारणवाक्‍यानि, नकारात्‍मकवाक्‍यानि, प्रश्‍नवाचकवाक्‍यानि अथ च नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि ।
 
पुलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: गमिष्‍यति स: न गमिष्‍यति किं स: गमिष्‍यति? किं स: न गमिष्‍यति?
वह जायेगा वह नहीं जायेगा क्‍या वह जायेगा ? क्‍या वह नहीं जायेगा ?
भवान् गमिष्‍यति भवान् न गमिष्‍यति किं भवान गमिष्‍यति ? किं भवान् न गमिष्‍यति ?
आप जायेंगे आप नहीं जायेंगे क्‍या आप जायेंगे ? क्‍या आप नहीं जायेंगे ?
अहं गमिष्‍यामि अहं न गमिष्‍यामि किम् अहं गमिष्‍यामि ? किम् अहं न गमिष्‍यामि ?
मैं जाउँगा मैं नहीं जाउँगा क्‍या मैं जाउँगा ? क्‍या मैं नहीं जाउँगा ?







पुलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते गमिष्‍यन्ति ते न गमिष्‍यन्ति किं ते गमिष्‍यन्ति ? किं ते न गमिष्‍यन्ति ?
वे जायेंगे वे नहीं जायेंगे क्‍या वे जायेंगे ? क्‍या वे नहीं जायेंगे ?
भवन्‍त: गमिष्‍यन्ति भवन्‍त: न गमिष्‍यन्ति किं भवन्‍त: गमिष्‍यन्ति ? किं भवन्‍त: न गमिष्‍यन्ति ?
आपलोग जायेंगे आपलोग नहीं जायेंगे क्‍या आपलोग जायेंगे ? क्‍या आपलोग नहीं जायेंगे ?
वयं गमिष्‍याम: वयं न गमिष्‍याम: किं वयं गमिष्‍याम: ? किं वयं न गमिष्‍याम: ?
हम जायेंगे हम नहीं जायेंगे क्‍या हम जायेंगे ? क्‍या हम नहीं जायेंगे ?





स्‍त्रीलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा गमिष्‍यति सा न गमिष्‍यति किं सा गमिष्‍यति ? किं सा न गमिष्‍यति ?
वह जायेगी वह नहीं जायेगी क्‍या वह जायेगी ? क्‍या वह नहीं जायेगी ?
भवती गमिष्‍यति भवती न गमिष्‍यति किं भवती गमिष्‍यति ? किं भवती न गमिष्‍यति ?
आप जायेगी आप नहीं जायेगी क्‍या आप जायेगी ? क्‍या आप नहीं जायेगी ?
अहं गमिष्‍यामि अहं न गमिष्‍यामि किम् अहं गमिष्‍यामि ? किम् अहं न गमिष्‍यामि ?
मैं जाउँगी मैं नहीं जाउँगी क्‍या मैं जाउँगी ? क्‍या मैं नहीं जाउँगी ?





स्‍त्रीलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: गमिष्‍यन्ति ता: न गमिष्‍यन्ति किं ता: गमिष्‍यन्ति ? किं ता: न गमिष्‍यन्ति ?
वे जायेगी वे नहीं जायेगी क्‍या वे जायेगी ? क्‍या वे नहीं जायेगी ?
भवत्‍य: गमिष्‍यन्ति भवत्‍य: न गमिष्‍यन्ति किं भवत्‍य: गमिष्‍यन्ति ? किं भवत्‍य: न गमिष्‍यन्ति ?
आपलोग जायेगी आपलोग नहीं जायेगी क्‍या आपलोग जायेगी ? क्‍या आपलोग नहीं जायेगी ?
वयं गमिष्‍याम: वयं न गमिष्‍याम: किं वयं गमिष्‍याम: ? किं वयं न गमिष्‍याम: ?
हम जायेगी हम नहीं जायेगी क्‍या हम जायेगी ? क्‍या हम नहीं जायेगी ?







उपरोक्‍तविधिद्वारा वयं सरलतया संस्‍कृतस्‍य अनिश्चितकालस्‍य वाक्‍यानां निर्माणं कर्तुं शक्‍नुम: । एवम् एव राम: गमिष्‍यति, सीता गमिष्‍यति, रामा: गमिष्‍यन्ति, सीता: गमिष्‍यन्ति आदि वाक्‍यानि अपि रचयितुं शक्‍नुम: ।
अस्‍तु सम्‍प्रति एतावतानाम् अभ्‍यासं कुर्म: । अग्रिम: पाठ: सतत् वाक्‍यानां विषये पठिष्‍याम: ।
तावत् अलम् ।


सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया: ।
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत् ।।

संस्‍कृतजगत्

एक टिप्पणी भेजें

3 टिप्पणियाँ

  1. आज कुछ बातें हिन्दी में

    गामिष्यति गामिष्यति गमिष्यामी

    मैं-मेरा-मुझे
    वो - उस का - उसे
    पाना पाया पाया हुआ
    मकान से - मकान का - मकान के - मकान ने - मकान में - मकान द्वारा - मकान के लिए - वगैरह

    इस तरह के एक साथ कई सारे उदाहरण कहाँ मिलेगे? जाल जगत पर| ये एक रेडी रेकनर जैसा होगा|

    संस्कृत सीखने के लिए हिन्दी का उपयोग मुझे बहुत ही जरूरी लग रहा है|

    मेरे सुझाव मान्य न होने की स्थिति में भी इस महतकर्म को जारी रखिएगा| 'कुछ नहीं है' से कहीं ज्यादा महत्वपूर्ण होता है 'कुछ तो है' :)))))))))))))))))))))

    जवाब देंहटाएं
  2. समाधान - मैं - अहं, मेरा - मम, मुझे - मह्यम

    वो - स:, उसका - तस्‍य, उसे - तस्‍मै

    पाना - प्राप्ति:
    , पाया - प्राप्‍तवान/प्राप्‍तवती, पाया हुआ - प्राप्‍तम्
    मकान से - प्रकोष्‍ठात्/गृहात्, मकान का-प्रकोष्‍ठस्‍य/गृहस्‍य, मकान ने - प्रकोष्‍ठेन/गृहेन, मकान मे-प्रकोष्‍ठे/गृहे, मकान द्वारा - प्रकोष्‍ठेन/गृहेन, मकान के लिये - प्रकोष्‍ठाय/गृहाय


    नवीन जी इन उपरोक्‍त शब्‍दों के संस्‍कृतअनुवाद संस्‍कृतजगत् पर ही पिछले अध्‍यायों में मिल जाएँगे ।

    प्रशिक्षणकक्ष्‍या की इस श्रृंखला में आगे भी ये दिये जाएँगे ।
    ऐसे ही अन्‍य सुझाव भी देते रहिये, इससे पाठ्यक्रम अधिक सशक्‍त होगा ।


    धन्‍यवाद

    जवाब देंहटाएं
  3. वाक्‍य सुधार
    1-संस्‍कृतेन सह एव भवान् हिन्‍दीभाषायां अनुवादम् अपि प्रकाशयतु ।

    2-एते श्‍लोका: अस्‍माकं सांस्‍कृतिक न्‍यासा: (धरोहर) सन्ति ।

    जवाब देंहटाएं