अकबरपुरक्षेत्रे 'अम्‍बेडकरनगरे' श्रीमद्भागवत कथा प्रारम्‍भ: ।

मीरानपुर, नवम्‍बर 1 : अकबरपुरक्षेत्रे, मीरानपुरखण्‍डे अद्य आरभ्‍य सप्‍तदिवसीया श्रीमद्भागवत् कथा आरभ्‍यते ।  स्‍थानीया: आयोजका: अस्‍य सूचना: दत्‍तवन्‍त: । 

      प्रतिवर्षम् एकवारम् अवश्‍यमेव अस्मिन् क्षेत्रे भागवत् कथाया: आयोजनं भवति ।  अस्मिन् वर्षेपि 1 दिनांकत: 8 दिनांकपर्यन्‍तम् अस्‍या: कथाया: आयोजनं कृयते ।  स्‍थानीया: जना: वृहत् संख्‍यायाम् अत्र आगच्‍छन्‍त: सन्ति ।  श्रीमद्भागवद् कथाया: संगीतमयी प्रस्‍तुत्‍या: आनन्‍दं स्‍वीकुर्वन्‍त: च सन्ति ।

टिप्पणियाँ