कारक प्रकरणम् (सम्प्रदानम्, अपादानम्, अधिकरणम् च) - Karak Prakaranam (Sampradanam, Apadanam and Adhikaranam)
सम्प्रदानम्
कर्मणा यमभिप्रैति स सम्प्रदानम् – दानकर्मणा यं विशेषरूपेण तुष्यति तस्य सम्प्रदानसंज्ञा भवति । ‘क्रियया यमभिप्रैति सोSपि सम्प्रदानम्’ अनेन वार्तिकेन – कर्ता क्रियाद्वारा यस्य विशेषरूपेण उन्मुखी भवति, तस्यापि सम्प्रदानसंज्ञा भवति इति ।
उदाहरणम् – विप्राय गां ददाति । अस्मिन् वाक्ये दानकर्मणा विप्रं तुष्यति अतएव विप्रस्य सम्प्रदान संज्ञा अभवत् ।
ध्रुवमपायेSपादानम् – अपायस्य (पार्थक्यस्य) अवस्थायां ध्रुवस्य (अचलस्य) अपादानसंज्ञा भवति ।
उदाहरणम् – बालक: ग्रामात् आयाति । अत्र बालकस्य ग्रामात् पार्थक्यं भवति अत: ‘ग्राम’ इति शब्दस्य अपादानसंज्ञा अभवत् ।
आधारोSधिकरणम् – कर्त्रा कर्मणा वा विद्यमानक्रियाया: य: आधार: भवति स: अधिकरणं कथ्यते । अर्थात् यस्मिन् स्थाने कर्त्रा कर्मणा वा द्वारा क्रियाया: सम्पादनं भवति, तदधिकरणं कथ्यते ।
उदाहरणम् – स्थाल्यां पचति । अस्मिन् वाक्ये पाचनकार्यस्य आधार: स्थालिका अस्ति अत: स्थालिकाया: अधिकरणसंज्ञा अभवत् ।

अपादानम्

अधिकरणम्

संस्कृतजगत्
टिप्पणियाँ
एक टिप्पणी भेजें