कारकम्
अक्षरम् – न क्षीयते इति अक्षरम् ।
पदम् – सुप्तिड्.न्तं पदम् । क्रमवतां
वर्णानां समूह: पदम् ।
वाक्यम् – एकतिड्. वाक्यम् । अथवा कारकान्विता
क्रिया वाक्यम् ।
कारकम् – क्रियान्वयित्वं कारकत्वम् । अन्वय: - सम्बन्ध: इति । क्रियया सह सम्बन्ध: अस्ति यस्य तत् कारकम् इति । कारकाणि षड्
सन्ति ।
कर्ता कर्म च करणं
सम्प्रदानं तथैव च ।
अपादानाधिकरणमित्याहु: कारकाणि षट् ।।
कर्ता, कर्म,
करणम्, सम्प्रदानम्, अपादानम्, अधिकरणम् च ।
सम्बन्ध: कारके न गण्यते यतोहि अस्य क्रियया सह साक्षात् सम्बन्ध: नास्ति ।
1-
पाचक: पचति – अत्र पाचक: (कर्ता) पाचनक्रियायाम् अन्वेति अत: कारकसंज्ञां धारयति ।
2-
गां स्पृशति – अत्र गौ: (कर्म) स्पर्शनक्रियायाम् अन्वेति अत: कारकसंज्ञां धारयति ।
3-
परशुना छिनत्ति – अत्र परशु: (करणम्) छेदनक्रियायाम् अन्वेति अत: कारकसंज्ञां धारयति ।
4-
बालाय फलं ददाति – अत्र बाल: (सम्प्रदानम्) दानक्रियायाम् अन्वेति अत: कारकसंज्ञां धारयति ।
5-
प्रासादात् पतति – अत्र प्रासाद: (अपादानम्) पतनक्रियायाम् अन्वेति अत: कारकसंज्ञां धारयति ।
6-
पीठे उपविशति – अत्र पीठम् उपवेशनक्रियायाम् अन्वेति अत: कारकसंज्ञां धारयति ।
कर्तृकारकं
क्रियायां साक्षात् अन्वेति । अन्यानि
कारकाणि तु परम्परया क्रियायाम् अन्वयं प्राप्नुवन्ति इति ।
इदं परिशील्यताम् --------
क:, कां, केन, कस्मै,
कस्मात्, कुत्र ददाति इति प्रश्न: (अयोध्याया:) राजा, गां, हस्तेन, विप्राय,
गोष्ठात्, गंगातीरे ददाति इति वाक्येन समाहित: भवति । अत: दानक्रियायां षडपि कारकाणि अन्वितानि
भवन्ति इति स्पष्टम् ।
अयोध्याया: अन्वय: राज्ञि एव, न तु दानक्रियायाम् । अत: षष्ठी
विभक्ति: (सम्बन्ध:) कारकं न इति ।
संस्कृतजगत्
1 टिप्पणियाँ
Good Effort Fo Noble Cause of Sanskritam. Please Read The Useful Article..http://vivekajyoti.blogspot.com/2012/01/effect-of-sanskrit-on-brain.html
जवाब देंहटाएं