वेदा: दीर्घकालपर्यन्तं भारतीय जन-जीवनस्य अंगानि आसन्; अद्य एवं भाति यत् भारतीया: वेद-विज्ञानात् अत्यधिकं दूरे तिष्ठन्ति परं च 'यजुर्वेद:' वेदस्य एष: एक: प्रभाग: अस्ति य: सम्प्रत्यपि जन-जीवने स्व-स्थानं केनचित् अपि रूपेण यथावत् स्थापयति । जन्मत: मृत्युपर्यन्तं विभिन्नसंस्कारेषु अस्य वेदस्य मन्त्राणि प्रयुज्यन्ते एव ।
यजुष् शब्दस्य निरुक्ति: यास्केन 'यज' धातुना कृतमस्ति - 'यजुर्यजते:'- (निरुक्तम् 7.12) । तदनुसारं अस्या: संहिताया: सम्बन्ध: यज्ञात् सन्निकटस्य अस्ति । एनम् अध्वर्युवेद: अपि निगद्यते यतोहि अनेन मन्त्रेण अध्वर्युनामक: ऋत्विज: यज्ञ-शरीरस्य संपादनं करोति ।
'अध्वयुनामक एक ऋत्विक् यज्ञस्यस्वरूपं विशेषेण निष्पादयति । 'अध्वर्यु:' इत्यत्र छान्दस्या प्रक्रियया लुप्तमकारं पुन: प्रक्षिप्य 'अध्वर्यु:' इति नाम संपादनीयम् । अध्वरं युनक्ति इति अवयवार्थ: । अध्वरस्य नेता इति तात्पर्यार्थ:' - (ऋग्भाष्यभूमिका) ।
सायणेन तैत्तिरीय-भाष्य-भूमिकायां, यजुर्वेदं भित्तिरूपम् अथ च अन्यौ द्वौ वेदौ चित्रस्थानीयौ इति उक्तमस्ति - 'भित्तिस्थानीयो यजुर्वेदश्चित्रस्थानीयावितरौ । तस्मात्कर्मसु यजुर्वेदस्यैव प्राधान्यम्' ।
'यजुष्' इत्यस्य एक: इतोपि अर्थ: अस्ति - तदनुसारं 'यजुष्' गद्यात्मकमन्त्राणि सन्ति । 'अनियताक्षरावसानो यजु:' । एतेषां गद्यात्मकमन्त्राणाम् अस्मिन् वेदे बाहुल्यमस्ति, यद्यपि स्थाने-स्थाने ऋचा: अपि सन्ति ।
1 टिप्पणियाँ
अति सुन्दर..व्याख्या ..यजु..यजुर्वेद व अध्वर...
जवाब देंहटाएं