शब्‍दालंकार: - अनुप्रास अलंकार:

shabdalankarशब्‍दालंकार: स: अलंकार: अस्ति य: शब्‍दस्‍य शोभां वर्धयति ।  अस्‍य त्रय: भेदा: सन्ति ।

1. अनुप्रास अलंकार:, 2. यमक अलंकार: एवं च 3. श्‍लेष अलंकार:

प्रत्‍येकस्‍य अलंकारस्‍य संक्षिप्‍तवर्णनं कृयते अत्र ।

anupras alankar1. अनुप्रास अलंकार: – अनुप्रास शब्‍द: 'अनु*प्र*आस' शब्‍दै: मिलित्‍वा निष्‍पन्नो अभवत् ।  यस्‍यार्थ: अस्ति रसादे: अनुकूलं शब्‍दविन्‍यास: ।  स्‍वरस्‍य वैशम्‍ये अपि शब्‍दसाम्‍यं प्राप्‍यते यत्र तत्र अनुप्रास अलंकार: भवति । 'अनुप्रास: शब्‍दसाम्‍यं वैशम्‍येपि स्‍वरस्‍य यत्' ।  तात्‍पर्यं – यदि शब्‍देषु स्‍वरा: समानं न सन्ति किन्‍तु व्‍यंजनानां समानता प्राप्‍यते चेत् तत्र अनुप्रास अलंकार: भवति ।

आचार्यविश्‍वनाथ: अनुप्रास शब्‍दस्‍य व्‍युत्‍पत्ति: करोति - ''रसाद्यनुगतत्‍वेन प्रकर्षेण न्‍यासोनुप्रास:'' ।  अर्थात् रसानाम् अनुकूलं न्‍यासम् (वर्णानां रचना विन्‍यास:) अनुप्रास: कथ्‍यते ।

यथा -

आदाय बकुलगन्‍धान्‍धीकुर्वन पदे पदे भ्रमरान् ।

अयमेति मन्‍दमन्‍दं कावेरीवारिपावन: पवन: ।।

उपर्युक्‍ते उदाहरणे ''गन्‍धान्‍धी'' शब्‍दे 'न' 'ध' वर्णयो:, 'कावेरीवारि' शब्‍दे 'व' 'र' वर्णयो:, पावन: पवन: शब्‍दयो: 'प' 'व' 'न' वर्णानां समानता प्राप्‍यते यद्यपि स्‍वरा: भिन्‍ना: सन्ति ।  अत: अत्र अनुप्रास अलंकार: विद्यते ।

अनुप्रासस्‍य एकम् इतोपि उदाहरणम् -

''लताकुंज गुंजन्‍मदवदलिपुंज चपलयन्

समालिड्.गन्‍नड्.ग, द्रुततरमनड्.गं प्रबलयन् ।।

मरुन्‍मन्‍दं मन्‍दं दलितमरविन्‍दं तरलयन्

रजोवृन्‍दं विन्‍दन् किरति मकरन्‍दं दिशि-दिशि ।।

अनुप्रास अलंकारस्‍य भेदा: -

अनुप्रास अलंकारस्‍य पंचभेदा: साहित्‍यदर्पणकारेण स्‍वीकृत: अस्ति ।  एते निम्‍नलिखिता: सन्ति ।

1. छेकानुप्रास:, 2. वृत्‍यानुप्रास:, 3. श्रुत्‍यानुप्रास:, 4. अन्‍त्‍यानुप्रास:, एवं च 5. लाटानुप्रास: ।

इति

टिप्पणियाँ

एक टिप्पणी भेजें