यदा प्रस्तुताप्रस्तुतयाभ्याम् एकेन एव धर्मेण सह सम्बन्ध: भवति तत्र तुल्ययोगिता अलंकार: भवति ।
पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत्
एकधर्माभिसम्बन्ध: स्यात्तदा तुल्ययोगिता ।।
अर्थात् यत्र केवलं प्रस्तुतस्य (उपमेयस्य) अथवा केवलम् अप्रस्तुतस्य (उपमानस्य) एकेन एव धर्मेण सम्बन्ध: भवति तत्र तुल्ययोगिता नामक: अलंकार: भवति । एष: धर्म: गुणरूपम् अथवा क्रियारूपं भवति ।
विशेष: -
- तुल्ययोगिताया: व्युत्पत्ति: 'तुल्यश्चासौ योगश्च इति तुल्ययोग:'
- एकधर्माभिसम्बन्ध:, स: अस्ति येषां ते तुल्ययोगिन:, तेषां भाव: तुल्ययोगिता ।
- तुल्ययोगिताया: अर्थ: - एकेन एव धर्मेण सम्बन्ध: ।
- तुल्ययोगिता नाम अन्वयो यत्रेति भाव: - वैद्यनाथ वत्सत् ।
- प्रकृतानामेव अप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिता - भट्टेन्दुराज:
उदाहरणम् -
तदंगमार्दवं द्रष्टु: कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ।।
प्रस्तुतोदाहरणे नायिका प्रस्तुत (उपमेयम्) अस्ति एवं च मालती, चन्द्रकला, कदली च अप्रस्तुता: (उपमानम्) सन्ति । एतेषां त्रयाणामपि पदार्थानां सम्बन्ध: कठोरतागुणधर्मेण अस्ति ; अत: अत्र तुल्ययोगिता अलंकार: अस्ति ।
इति...............
टिप्पणियाँ
एक टिप्पणी भेजें