अर्थालंकार: - विभावना अलंकार:

 

हेतुं विना यत्र कार्योत्‍पत्ति: दृष्‍यते तत्र विभावना अलंकार: भवति ।

विभावना विना हेतुं कार्योत्‍पत्तिर्यदुच्‍यते ।

अर्थात् यत्र कारणेन विना एव कार्यस्‍य उत्‍पत्ति: प्रदर्श्‍यते तत्र विभावना अलंकार: भवति ।

विशेष: -

  • विभावना अलंकारस्‍य व्‍युत्‍पत्तिरस्ति - 'विभावयति कारणान्‍तरं कल्‍पयति इति विभावना ।'
  • ''प्रसिद्धकारणस्‍य निषेधेपि तत्‍कार्यरूप फलस्‍य व्‍‍यक्ति: प्रकाशनं विभावना ।  विभावयति कारणान्‍तरं कल्‍पयतीति विभावना ।  प्रसिद्धकारणाभावेपि कार्योत्‍पत्त्‍िर्हि कारणान्‍तरं कल्‍पयति विभावना ।''                        - नागेश्‍वरी टीका ।
  • विभावना अलंकारस्‍य द्वौ भेदौ कल्पितौ स्‍त: ।
    1. उक्‍तनिमित्‍ता - अप्रसिद्धकारणं कदाचित् उक्‍तं भवेत् ।
    2. अनुक्‍तनिमित्‍ता - अ‍प्रसिद्धकारणम् उनुक्‍तं भवेत् ।

उदाहरणम् -

अनायासकृशं मध्‍यमशंकतरले दृशौ

अभूषणमनोहारि वपुर्वयतिस सुभ्रुव: ।।

प्रस्‍तुतोदाहरणे कटिप्रदेशस्‍य कृशता, नेत्राभ्‍यां चंचलता, शरीरस्‍य आभूषणेन विनैव सुन्‍दरता इत्‍येषां प्रसिद्धकारणं नास्ति अत: विभावना अलंकार: अस्ति ।

इति ........

टिप्पणियाँ