अर्थालंकार: - दीपक अलंकार:

 

उपमानोपमेययो: एकधर्मात् सम्‍बन्‍ध: भवेत् चेत् दीपक अलंकार: कथ्‍यते । 

अप्रस्‍तुतप्रस्‍तुतयोर्दीपकं तु निगद्यते ।

अथकारकमेकं स्‍यादनेकासु क्रियासु चेत् ।।

अर्थात् यत्र एकधर्मेण एव उपमानस्‍य च उपमेयस्‍य च द्वयो: अपि सम्‍बन्‍ध: भवति स: दीपकअलंकार: कथ्‍यते ।  अथवा यदि अनेकक्रियाणां सह एव एकस्‍य एव कारकस्‍य सम्‍बन्‍ध: भवतु तत्र दीपक अलंकार: भवति ।

आचार्यविश्‍वनाथेन दीपकालंकारस्‍य द्वौ भेदौ स्‍वीकृतौ -

1. कारकदीपकम्

2. क्रियादीपकम्

केशवमिश्रस्‍य कथनमस्ति - 'समस्‍तवाक्‍योपकत्‍वेन दीपसाम्‍याद्दीपकमित्‍यर्थ:'

उदाहरणम् -

क्रियादीपकम् - बलावलेपादधुनापि पूर्ववत् प्रबाध्‍यते तेन जगज्जिगीषुणा ।

सती च योषित् प्रकृतिश्‍च निश्‍चला पुमांसमभ्‍येति भवान्‍तरेष्‍वपि ।।

प्रस्‍तुतम् उदाहरणं क्रियादीपकस्‍य अस्ति ।  अत्र अप्रस्‍तुत 'सती स्‍त्री' एवं च प्रस्‍तुत 'निश्‍चला प्रकृति:' इत्‍ययो: प्राप्ति: क्रियारूपमेकमेव धर्मेण सम्‍बध्‍यते ।

कारकदीपकम् - दूरं समागतवति त्‍वयि जीवनाथे

भिन्‍ना मनोभवशरेण तपस्विनी सा ।

उत्तिष्‍ठति स्‍वपिति वासगृहं त्‍वदीय-

मायाति याति हसति श्‍वसिति क्षणेन ।।

प्रस्‍तुते उदाहरणे एका एव नायिका, कर्ताकारकरूपेण उत्तिष्‍ठति, उपविशति, आयाति, याति, हसति, रुदिति च ।  अत: क्रियादीपकअलंकार: अस्ति ।

इति .............

टिप्पणियाँ